________________
हरिवंशपुराण।
४३४
चतुस्त्रिंशः सर्गः। स द्वाविंशत्यहोरात्रौ प्रायोपगमनांचितौ । आराध्यापाच्युतेंद्रत्वं द्वाविंशत्यधिजीवितः ॥४२॥ च्युत्वा गजपुरे जज्ञे जिनेंद्रमतभावितः । श्रीचंद्रश्रीमतीसूनुः सुप्रतिष्ठः प्रतिष्ठितः ॥ ४३ ॥ सुप्रतिष्ठं प्रतिष्ठाय राज्ये श्रीचंद्रचंद्रमाः । सुमंदिरगुरोरते दीक्षित्वा मोक्षमाप्तवान् ।। ४४ ॥ श्रीचंद्रात्मजराजोऽसौ दानं मासोपवासिने । यशोधराय दत्त्वाऽऽप वसुधारादिपंचकं ॥ ४५ ॥ कार्तिक्यामन्यदा रात्रावष्टस्त्रीशतवेष्टितः । तिष्ठन्पतनमुल्काया दृष्ट्वा लक्ष्मी सुदृष्टये ॥४६॥ सुनंदासूनवे दत्वा सुमंदिरमहागुरोः । सुप्रतिष्ठोऽप्यदीक्षिष्ट दृष्टोल्कासदृशं श्रियं ।। ४७॥ चतुःसहस्रसंख्याताः सहस्रकिरणौजसः । प्रातिष्ठंत तपस्युग्रे सुप्रतिष्ठेन पार्थिवाः ॥४८॥ शानदर्शनचारित्रतपोवीर्यविवृद्धिमान् । अध्यैष्ट सोंगपूर्वाणि सरहस्यान्यतंद्रितः ॥ ४९ ॥ तपोविधिविशेषैः स सर्वतोभद्रपूर्वकैः । वपुर्विभूषयांचके सिंहनिःक्रीडितोत्तरैः ॥५०॥ श्रवणादपि पापनानुपवासमहाविधीन् । शृणु यादव ! ते वच्मि समाधाय मनः क्षणं ॥५१॥ एकादिधूपवासेषु पंचांतेषु यथाक्रमं । अंतयोः कृतयोरादौ शेषभंगसमुद्भवे ॥५२॥ कल्पितश्चतुरस्रोऽयं प्रस्तारः पंचभंगकः । सर्वतोऽप्युवासाश्च गण्याः पंचदशाऽत्र हि ॥५३॥ पंचमिर्गुणितास्ते स्युः संख्यया पंचसप्ततिः । ताडिता: पंचभिः पंच पारणा: पंचविंशतिः॥५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org