________________
हरिवंशपुराणं।
४२८
प्रयस्त्रिंशः सर्गः। मुंजानानाह राजन्याँस्तत्र राजसुतैः सह । भोक्तुं नाहूयते कस्मादयं निर्नामकोऽनुजः ॥१४६॥ आहूतस्तैरसौ भोक्तुमासीनः सौदरैः सह । राज्ञामागतया मात्रा कोपात्पादेन ताडितः॥१४७॥ धिर मधेतोरयं दुःखं निर्नामा प्राप्तवानिति । दुःखी शंखस्तमादाय गत्वा राजादिभिर्वने ॥१४८॥ द्रुमषणर्षिमेकांते दृष्ट्वा नत्वा स पृष्टवान् । निर्नामकस्य जन्मानि सावधिः सोऽभ्यधान्मुनिः॥१४९।। आसीच्चित्ररथो राजा नगरे गिरिपूर्वके । कामिनी गुणिनी यस्य कांता कनकमालिनी ॥१५०॥ मांसप्रियस्य तस्यासीत्सूदोऽमृतरसायनः । राज्ञा च मांसपाकज्ञो दशग्रामेश्वरः कृतः ॥१५१ ।। मांसदोषं नृपः श्रुत्वा सुधर्मास्त्रिशतैर्नृपः । क्षिप्त्वा मेघरथे लक्ष्मीमदीक्षिष्ट मुमुक्षया ॥१५२॥ नवराजेन सूदोऽपि श्रावकेन सता ततः । निर्मदीकृत्य मास्पाको ग्राममात्रपतिः कृतः॥१५३॥ सूदेन कुपितेनासौ मुनिर्मासनिषेधनः । कदालांविषाहारं दत्त्वा प्राणैर्वियोजितः ।। १५४ ॥ उर्जयंतगिरौ मृत्वा स्वयोगादूर्जितादभूत् । द्वात्रिंशदन्धितुल्यायुः सोऽहमिंद्रोऽपराजिते ॥१५५॥ सूपकारो मृतः प्राप पृथिवीं बालुकाप्रभा । त्रिसमुद्रोपमं कालं नारकं दुःखमन्वभूत् ॥ १५६ ॥ ततश्चोहर्त्य पर्यटय तिर्यग्गतिमहाटवीं । सोऽगी मलयराष्ट्रांतःपलाशग्रामवर्तिनोः ॥ १५७ ॥ कुटुंबिनोजडप्रायोयक्षिलायक्षदत्तयोः । यक्षस्थावरजो नाम्ना सूनुर्यक्षलिकोऽभवत् ॥ १५८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org