________________
৪২৪
हरिवंशपुराणं।
त्रयस्त्रिंशः सर्गः। कांतो गरुडसेनौ द्वौ गरुडध्वजवाहनौ । चूलौ मणिहिमादी च व्योमानंदचरौ वरौ ॥१३३॥ अभिरूपतमाः सर्वे भूरिविद्योद्यताः स्थिताः । चित्रचूलसुता मूर्ध्नि ते चूलामणयो नृणां ॥१३४॥ राजा मेघपुरे चैव सर्वश्रीशो धनंजयः । धनश्रीरिति विख्याता तस्य कन्यातिरूपिणी ॥१३५॥ स्वयंवरमगुस्तस्या विश्वे विद्याधरात्मजाः । तत्रात्ममैथुनं बत्रे कन्याऽसौ हरिवाहनं ॥१३६॥ वयं स्वयंवरव्याजात्स्वविवाहाय मायया । समाहूता इति क्रुद्धास्तत्पित्रे गगनायनाः ॥१३७॥ परस्परबधं चक्रुस्ते तत्कन्यार्थिनस्ततः । चित्रचूलसुता निद्यं दृष्ट्वा क्षत्रवधं तकं ॥१३८॥ पापहेतुं विनिंद्याक्षविषयान् विषमानमी । भूतानंदजिनस्यांते प्रव्रज्यां ते प्रपेदिरे ॥१३९।। सप्ताप्याराध्य माहेंद्रे सप्ताध्युपमजीविताः । सामानिकसुरा भूत्वा सुखं बुभुजिरे चिरं ॥१४०॥ ततश्युत्वाऽग्रजोऽत्रैव भारत हास्तिनाहये । नगरे श्रेष्ठिनः शंखो बंधुमत्यामभूत्सुतः ॥१४१॥ इतरे गंगदेवस्य तत्पुरेशस्य भूपतेः । नंदना नंदयशसो द्वंद्वभूतास्तु जज्ञिरे ॥१४२।। गंगश्च गंगदत्तश्च गंगरक्षतकस्तथा । नंदश्चापि सुनंदश्च नंदिषणश्च सुंदरः ॥१४३।। सप्तमस्तु सुतो देव्या गर्भे दौर्भाग्यदग्धया । त्यक्तः संवर्धितश्चासौ धात्र्या रेवतिकाख्यया ॥१४४॥ शंखो जातोऽन्यदाऽऽदाय तं निर्नामकनामकं । हृद्यं मनोहरोद्यानं पौरलोकसमाकुलं ॥१४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org