________________
हरिवंशपुराणं ।
४२६
त्रयस्त्रिंशः सर्गः । आगत्याभ्यर्च्य साध्वंड्री नमतोऽस्य शिरस्यसिः । मुक्तस्तया निरुद्धो द्राक् शूरसेनेन तेन सः ॥ १२० ॥ अंतर्हितवपुर्यातः सूरसेनो विरक्तधीः । ततोऽनु मायया मंगी तस्य स्पर्शेण शंकिता ॥ १२१ ॥ स्वदोषच्छादनायासौ पपात धरणीतले । भर्त्रा पृष्टा प्रिये किं तु केनचिद् भीषिताऽत्र हि ॥ १२२ ॥ न किंचिदपि चास्त्यत्र तां प्रबोध्य भयातुरां । वज्रमुष्टिर्मुनिं नत्वा सकांतः स्वगृहं गतः ॥ १२३ ॥ चौरास्ततः समागत्य चौर्याल्लब्धधनं तदा । विभज्य समभागेन स्वं गृहाणेति तं जगुः ॥ १२४॥ अनिच्छन् शूरसेनोऽपि जगौ दारार्थमर्थिनः । घटतेऽनर्थकार्यं ते वज्रमुष्टिस्त्रियः समाः ।। १२५ ।। दृष्ट्वा श्रुत्वा च वृत्तांतं षट् कनिष्ठाः विरागिणः । प्राव्रजन् वरधर्मांते ज्येष्ठेभ्योऽप्यनयद् धनं ॥ १२६ ॥ सप्तसु श्रुतवार्त्तासु निष्क्रांतास्वथ तास्वपि । तस्यैव स गुरोरंते सुभानुः प्राव्रजत्सुधीः ॥ १२७॥ मुनीन् कालांतरेणानागतान् वीक्ष्य सूरिणा । दीक्षा हेतुमसौ पृष्ट्वा बज्रमुष्टिरदीक्षत ॥ १२८॥ आर्यिकास्तास्तथा पृष्ट्वा जिनदत्तापुरःसराः । मंगी संस्मृतवृत्तांता प्रववाज दृढव्रता ॥ १२९॥ भृतघोरतपोभाराः सर्वेऽप्याराध्य तेऽभवन् । सौधर्मे चार्णवायुष्का स्त्रायत्रिशत्सुरोत्तमाः ॥ १३०॥ पूर्वस्मिन् धातकीखंडे भारते रौप्यपर्वते । च्युत्त्रा दक्षिणश्रेण्यां नित्यालोकपुरोत्तमे ॥ १३१ ॥ चित्रचूलमनोहर्यो ज्येष्ठचित्रांगदोंगजः । यज्ञे त्रिद्वंदगर्भास्तु क्रमेणैव तथोत्तरे ॥ १३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org