________________
हरिवंशपुराणं।
४२५
त्रयस्त्रिंशः सर्गः। सा वसंतोत्सवे रंतुं वनं प्रमदपूर्वकं । द्राङ् मामन्वेहि मंगीति राज्ञा मा प्रागतेऽगजे ॥१०७॥ माल्यदानापदेशेन तामादिष्टां वधं कुधीः । संदष्टां दंदशूकेन धूपिनेन घटोदरे ॥१०८॥ मूञ्छितां विषवेगेन श्वश्रू त्यैरजीहरत् । श्मशानं तन्महाकालं कालस्यापि भयंकरं ॥१०९।। स रात्रौ गृहमागत्य ज्ञात्वा वृत्तांतमाविशत् । महाकालं महास्नेहादन्वेष्टुं स्वप्रियां प्रियः॥११०॥ खड़दीप्रकरः सोऽयं तच्छ्मशानमशंकितः । रात्रिप्रतिमयाऽपश्यद् वरधर्ममुनि स्थितं ॥१११॥ त्रिःपरीत्य स तं नत्वा जगौ ते पादपूजनं । कुर्वे पद्मसहस्रेण मुने ! मंगीं लभे यदि ॥११२॥ उक्त्वेति प्रगतो लब्ध्वा स तामानीय मानिनीं । महामुनिपदस्पर्शानिर्विषां विदधे वधं ॥११३॥ मुनिपादोपकंठेऽसौ तावत्तिष्ठेत्युदीर्य तां । सुदर्शनं सरो यातः पद्मानामानिनीषया ॥११४॥ सूरसेनस्तमादर्य महास्नेहं प्रियां प्रति । स जिज्ञासुमनस्तस्या रूपी रूपमदर्शयत् ॥११५।। गृढधीः कृतसल्लापस्तया सकृतमंत्रणः । तस्य दर्शनमात्रेण जाताऽसौ कामविहला ॥११६॥ तमागत्याब्रवीद् देव ! मामिच्छ कृपयान्वितः । स बमाण करोम्येवं कथं भर्तरि जीवति ॥११७॥ विभेम्यतः प्रियेऽवश्यं वीर्यान्वितभटादहं । त्वं मा कुर्वीयं नाथ! सा तं प्राह सुरक्तधीः॥११८॥ असिना घातयाम्येनं तेनाभ्युपगतं यदा । तत्र गूढतनुस्तस्थौ तत्कृत्यं तद्दिदृक्षया ॥११९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org