________________
हरिवंशपुराणं।
४२४
त्रयस्त्रिंशः सर्गः। चरमोत्तमदेहास्तु शेषाः पडपि सूनवः । न तेषामपि मृत्युः स्यादाधिव्याधिमतस्त्यज ॥९४॥ रामभद्रसमेतानां तेषां जन्मांतराणि ते । भणामि श्रणु सस्त्रीकश्चित्तप्रीतिकराण्यहं ॥९५॥ सूरसेननृपे पाति मथुरां भानुरित्यभूत् । इभ्यो द्वादशकोटीशो यमुना तस्य भामिनी ॥९६॥ सुभानुर्भानुकीर्तिश्च भानुषेणस्तथा परः । शूरश्च सूरदेवश्च शूरदत्तस्तथैव च ॥९७॥ शूरसेनश्च सप्तैते यमुनाभानुसूनवः । अभिरामाः स्वभावेन तेऽन्योन्यानुगतास्तदा ॥९८॥ कालिंदी तिलका कांता श्रीकांता सुंदरी द्युतिः। चंद्रकांता च तत्कांता क्रमेण कुलबालिकाः ॥९९।। भानुः प्रावजदंतेऽसौ गुरोरभयनंदिनः । तथा यमुनदत्तापि जिनदत्तार्यिकांतिके ॥१०॥ द्यूतवेश्याप्रसंगेन विनाश्य द्रविणं पितुः । चौर्यार्थ भ्रातरः सर्वे गतास्तूज्जयिनी पुरीं ॥१०१॥ कनीयांसं महाकाले संतत्यर्थं निधाय ते । प्राविशन् निशि निःशंकाः पुरी षडपि चेतरे ॥१०२।। कमलायास्तदा भर्ती राजाऽत्र वृषभध्वजः । वप्रश्रीवल्लभस्तस्य दृष्टमुष्टिर्भटोत्तमः ॥१०३॥ स वज्रमुष्टये मंगी स्वांगजायांगजातये । राज्ञा विमलचंद्रेण विमलाजामदापयत् ॥१०४॥ सातिबल्लभिका तस्य बल्लकीवांगवर्तिनी । श्वश्रूशुश्रूषया मंगी संगता नानुवर्त्तते ।।१०५॥ अंतःकलषिणी साऽस्याः सततापायचिंतनी । उपायं चिंतयंत्यास्ते छगना तद्वियोजने ॥१०६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org