________________
हरिवंशपुराणं ।
४२३
त्रयस्त्रिंशः सर्गः । अटित्वा मथुरां सर्वामलाभे श्रमपीडितः । श्रमणोऽते विशश्राम नगरद्वारि सोऽन्यदा ।। ८१ ॥ तं दृष्ट्वा केनचित्प्रोक्तो हा कष्टं भूभृता कृतं । भिक्षां स्वयं न दत्तेऽस्मै परानपि निषिद्धवान् ॥८२॥ तदाऽऽकर्ण्य रुपा तेन ध्यातास्ताः पूर्वदेवताः कार्यं कुर्यात मेऽन्यस्मिन् जन्मनीति विनिर्ययौ ॥ ८३ ॥ निकारायोग्रसेनस्य प्रकृतोग्रनिदानतः । स मिथ्यात्वमितो मृत्वा पद्मावत्युदरेऽवसत् ॥ ८४ ॥ तस्मिन् गर्भस्थिते देवीकांते कृशविग्रहां । नृपः पप्रच्छ तां कांते दौहृद्यं ते किमित्यसौ ||८५|| नाथावाच्यमचिंत्यं च गर्भदोषेण चिंतितं । इत्युक्ते स त्वयाऽवश्यं वाच्यमित्यवदन्नृपः ॥ ८६ ॥ साऽस्य निर्बंधतो वाचा दुःखगद्गदयाऽगदीत् । विषाद्य जठरं पातुं रुधिरं तव मे स्पृहा ॥ ८७ ॥ सचिवोपायतस्तस्या दौहृदे विहिते ततः । असूत तनयं देवी भ्रकुटीकुटिलाननं ॥ ८८ ॥ गर्भप्रभृतिरौद्रं तं कंसमंजूषिकाकृतं । देव्यमाचयदेकांते प्रवाहे यामुने भयात् ॥ ८९ ॥ अवीवृदसौ लब्ध्वा कौशांव्यां सीधुकारिणी । कृतकंसाभिधं शेषं तवापि विदितं नृप ॥ ९० ॥ निदानदोषदुष्टोऽयं कृतवान् पितृनिग्रहं । उग्रसेननृपं चापि मोचयिष्यति ते सुतः ॥ ९१ ॥ नृपोक्तः कंससंबंधः पितृबंध निबंधनः । वच्मि ते पुत्रसंबंधं शृणु संधाय मानसं ॥९२॥ देवक्याः सप्तमः सुनुः शंखचक्रगदासिभृत् । निहत्य कंसपूर्वारीन् निःशेषां भोक्ष्यति क्षिति ॥९३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org