________________
हरिवंशपुराणं।
४२२
त्रयस्त्रिंशः सर्गः। इत्युक्ते तापसः काष्ठं कुठारेण विपाट्य सः । ददर्श दंदशकं तं दह्यमानं तदाकुलं ॥ ६८ ॥ कृततापसधर्मस्य ब्रह्माख्यस्वपितुर्गतिं । कुत्सिता भवगम्यासावज्ञत्वं चापि चात्मनः ॥ ६९ ॥ ज्ञात्वा च जैनधर्मस्य ज्ञानपूर्वकतां तथा । वीरभद्रगुरोरते वशिष्ठोऽधिष्ठितस्तपः ॥ ७० ॥ एको लाभांतरायस्य कर्मणः परिपाकतः। तपस्यतामभूत् साधुः स भिक्षालब्धिवर्जितः ॥७१॥ स पर्युपासनाहेतोरागमागमनाय च । शिवगुप्तयतेयत्नात् गुरुणापि समर्पितः ॥ ७२ ॥ संतप्तस्य स षण्मासान् वीरदत्ते न्ययोजयत् । तथा सोऽपि सुमत्याख्ये षण्मासान् सोऽप्यपालयत्।७३। यतिधर्मविधानज्ञः परीषसहस्ततः । बभूवैकविहारी स वशिष्ठो विदितः क्षितौ ॥ ७४ ॥ मथुरायामथ संप्राप्तो विहरन् स महातपाः। पूज्यते च प्रजापालप्रजामिर्गुरुवत्तया ॥७५ ।। धृतातपनयोगं तं मुदा पर्वतमस्तके । सप्तैत्योचुस्तपोवश्याः किं कुर्मस्तेऽथ देवताः ।। ७६ ॥ कर्तव्यं मम नास्तीति स निषिध्य तपोधनः । व्यसर्जयद्धि तश्या गताश्च वनदेवताः॥७७॥ मासोपवासिने तस्मै निस्पृहाय तपस्विने । पारणास्वनदानाय स्पृहयंत्यखिलाः प्रजाः ॥७८ ॥ उग्रसेनोऽन्यदा दातुं पारणां तमयाचत । न्यवारयत्तदा दातृन् मथुरावासिनोऽखिलान् ।। ७९॥ पारणासु नृपस्तस्य विसस्मार तिसृष्वपि । दूतानिद्विरदक्षोभव्यासंगेन प्रमादवान् ॥ ८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org