________________
हरिवंश पुराणं ।
४२१
त्रयखिंशः सर्गः ।
I
यदा परीक्षितो राज्ञा तदा कोपं विधाय सेः । प्रकाशितनिजज्ञानो मथुराया विनिर्गतः ||५७|| वाराणसी समासाद्य समासादितनिश्चयः । गत्वा बाह्यथ गंगायाः संगमे कुरुते तपः ॥ ५८ ॥ वीरभद्र गुरुवागात् सपंचशतशिष्यकः । तद्देशं तत्र चैकेन नवप्रव्रजितेन सः ॥ ५९ ॥ प्रशंसितो वशिष्ठोऽयमहो घोरतपा इति । वारितः स तपः कीदृगज्ञानस्येति सूरिणा ॥ ६० ॥ वशिष्ठेन किमज्ञोऽहमित्युक्तो गुरुरब्रवीत् । त्वं षड्जीवनिकायानां पीडनादज्ञ इत्यसौ ॥ ६१ ॥ पंचाग्नितपसि प्रायो नियोगो दहनस्य हि । दांते तेन चावश्यं पंचैकविकलेंद्रियाः ॥ ६२ ॥ पृथिव्यपतेजसां वायोः प्राणिनां च वनस्पतेः । प्रघाते ज्ञानहीनस्य कुतः स्यात् प्राणिसंयमः॥ ६३ ॥ विरागस्यापि मिथ्यादृग्ज्ञानचारित्रमानिनः । संज्ञानपूर्वको जंतोः कुतर्थेद्रियसंयमः ।। ६४ ।। केवलं कायसंतापं भजमानस्य मानिनः । सम्यग्संयमहीनस्य तापस्यं मुक्तये कुतः ।। ६५ ।। जैन व हि सन्मार्गे संयमस्तप एव च । दर्शनं चापि चारित्रं ज्ञानं चाशेषभासनं ॥ ६६ ॥ अवेहि तापसात्मीयं पितरं व्यालतां गतं । ज्वालाधूमावलीव्याप्ते दद्यमानमिहेंधने ॥ ६७ ॥ १ श्रेष्ठिनो जिनदत्तस्य भृत्ययाऽज्ञान इत्यसौ । हेतोः कुतोऽप्यधिक्षिप्तः प्रियंगुलतिकाख्यया ॥ क्रुद्धो राजानमद्राक्षीद् राज्ञा चापि परीक्षितः ॥ इति ख घ पुस्तकयोः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org