________________
४२०
हरिवंशपुराण।
त्रयस्त्रिंशः सर्गः। इति पृष्टो मुनिः प्राह स दीपावधिलोचनः । संशयच्छेदिनी यस्मात्प्रवृत्तिर्दिव्यचक्षुषः ॥ ४५ ॥ आकर्णयस्व देवानांप्रिय ! सर्वजनप्रियः । कथयामि यथाप्रश्नं वस्तु जिज्ञासितं नृप ॥ ४६॥ मथुरायामिहैवासीदुग्रसेने तु राजनि । प्राक् पंचाग्नितपोनिष्ठो वसिष्ठो नाम तापसः ॥ ४७ ।। एकपादस्थितश्चासावू बाहुवहज्जटः । यमुनायास्तटे सोऽज्ञः तपस्तपति तापसः ॥४८॥ जलार्थ तत्र लोकानां घटदासीभिः सा तथा । भणिता जिनदासस्य चेटिकाऽहितबुद्धिभिः॥४९॥ प्रियंगुलतिके त्वस्य प्रणाम कुरु सत्वरं । सा चावादीन मे भक्तिरस्योपरि करोमि किं ॥५०॥ ततो हठान्नामिताभिः सा जगौ धीवरस्य हे । पातिताहं पदद्वंद्वे श्रवणाद्रुष्टो मूढधीः॥ ५१ ॥ गतो राजसमीपेऽसौ जगावाक्रोशितोप्यहं । श्रेष्ठिना जिनदत्तेन प्रभोऽहं कारणाद्विना ॥ ५२ ॥ राज्ञाऽऽनाय्य पृष्टोऽसौ जिनदत्तोबभाण तं । अस्य मे दर्शनं नास्ति किंशाप्यमब्रवीन्मुनिः॥५३॥ शापितश्चास्य दास्याऽहं पृष्टा आनाय्य तेन सा । कथं न नमसे पापे मुनित्रिदयसि क्रुधा ॥५४॥ तयोक्तं न मुनिस्त्वेष धीवरोऽस्ति प्रभो कुधीः। जटाभारस्य नो अस्य शुद्धिः कुत्रापि दृश्यते ॥५५।। शोधिते बहवो मत्स्याः सूक्ष्मास्तेभ्यश्च निर्गताः लज्जितोहसितो लोकैzषावादी त्वसौ मुनिः॥५६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org