________________
हरिवंशपुराणं ।
४१९
त्रयस्त्रिंशः सर्गः ।
जातुचिन्मुनिवेलायामतिमुक्तकमागतं । कंसज्येष्ठं मुनिं नत्वा पुरः स्थित्वा सविभ्रमं ||३२|| हसंती नर्मभावेन जगौ जीवद्यशा इति । आनंदवस्त्रमेतत्ते देवक्याः स्वसुरक्ष्यतां ॥३३॥ तस्या निर्बंधचित्ताया प्रमत्ताया निवृत्तये । वचोगुप्तिमसौ भित्त्वा संसारस्थितिविज्जगौ ॥ ३४ ॥ अहो क्रीडनशैलायास्तवेयमतिमूढता । शोकस्थाने प्रपन्नासि यदानंदमनिंदिनि । ३५ ।। भविता यो हि देवक्या गर्भेऽवश्यमसौ शिशुः । पत्युः पितुश्च ते मृत्युरितीयं भवितव्यता ॥ ३६ ॥ ततो भीतमतिर्मुक्त्वा मुनिं साश्रुनिरीक्षणा । गत्वा न्यवेदयत्पत्ये सत्यं हि यतिभाषितं ||३७|| श्रुत्वा कंसोऽपि शंकावानाशु गत्वा पदानतः । वसुदेवं वरं वत्रे तीव्रधीः सत्यवाग्वतं ॥ ३८ ॥ स्वामिन्! वरप्रसादो मे दातव्यो भवता ध्रुवं । प्रसूतिसमये वासो देवक्या मद्गृहेऽस्त्विति ।। ३९ ।। सोऽप्यविज्ञातवृत्तांतो दत्तवान् वरमस्तधीः । नापायः शंक्यते कश्चित्सोदरस्य गृहे स्वसुः ॥ ४० ॥ पश्चाद्विदितवृत्तांतः पश्चात्तापहतांतरः । सहकारवनांतस्थमतिमुक्तकमाप्तवान् ॥ ४१ ॥ देवक्या सह वंदित्वा चारणश्रमणं स तं । दत्ताशिषमुपासृत्य पप्रच्छ मनसि स्थितं ॥४२॥ भगवन्नत्र कंसोऽयं कृतेनान्यत्र जन्मनि । पितुरेव रिपुर्जातः कर्मणा केन दुर्मतिः ॥ ४३ ॥ कथं वा मम पुत्रोऽस्य कंसस्य भविता विभो । हिंसकः पापचित्तस्य वद वांछामि वेदितुं ||४४ ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org