________________
हरिवंशपुराणं ।
शः सर्गः ।
गृहं सीधगृहीत्यर्थं वेश्यानां बालिकाः श्रिताः । पाणिनाऽऽकृष्य वेणीस्ताः सुखली कृत्य मुंचति ।। १९ ।। लोकपालंभतो भीत्या मयकाऽयं निराकृतः । कृतवान् शस्त्रशिक्षार्थी शिष्यतां किल कस्यचित्॥२०॥ कंसमंजूषिका ह्येषा माता तिष्ठति नाहकं । तद्गुणैरस्य दोषैर्वा न स्पृश्ये स्पृश्यतामियं ॥ २१ ॥ इत्युक्ते दर्शितायां च तया तस्यां व्यलोकत । तन्नाममुद्रिकां राजा ततो वाचयति स्म सः ||२२|| गर्भस्थोऽपि सुतोऽत्युग्रः पद्मावत्युग्रसेनयोः । जीवताद्वरमात्मीयैः कर्मभिः कृतरक्षणः ॥२३॥ वाचयित्वेति विज्ञाय राजा स्वस्त्रीयमात्मनः । हृष्टः कन्यां ददौ तस्मै संपन्नगुणसंपदां ॥ २४ ॥ सद्यो जातं पिता नद्यां मुक्तवानिति स क्रुधा । वरीत्वा मथुरां लब्ध्वा सर्वसाधनसंगतः ||२५|| कंसः कालिंद सेनाया सुतया सह निर्घृणः । गत्वा युद्धे विनिर्जित्य बबंध पितरं द्रुतं ॥२६॥ महोग्रो भग्नसंचारमुग्रसेनं निगृह्य सः । अतिष्ठिपत् कनिष्ठाशः स्वपुरद्वारगोचरे ||२७|| वसुदेवोपकारेण हृतः प्रत्युपकारधीः । न वेत्ति किंकरोमीति किंकरत्वमुपागतः ॥ २८॥ अभ्यर्थ्य गुरुमानीय मथुरां पृथुभक्तितः । स्वसारं प्रददौ तस्मै देवकीं गुरुदक्षिणां ॥ २९ ॥ आस्ते कंसोपरोधेन मथुरायां ततो यदुः । प्रदीव्य दिव्यदीप्त्याऽसौ देवक्या हारिवाक्यया ॥३०॥ सूरसेनमहाराष्ट्र राजधानीं द्विवंतपः । शशास मथुरां कंसो जरासंधातिबल्लभः ||३१||
1
Jain Education International
४१८
For Private & Personal Use Only
www.jainelibrary.org