________________
हरिवंशपुराणं ।
त्रयस्त्रिंशः सर्गः। जीवग्राहं गृहीत्वाऽसौ दर्शयिष्यति मेऽग्रतः । स एव पुरुषो लोके शूरः शूरतरोऽपि च ॥६॥ तस्य मानधनस्यांते पीतशत्रुयशोऽबुधेः । आनुषंगिकमप्येतत्फलमन्यसुदुलेभं ॥७॥ जीवद्यशसमाक्रांतविश्रांतयशसं गुणैः । सुतामीप्सितदेशेन सह दास्यामि सुंदरीं ॥८॥ श्रुत्वा तां घोषणां श्रव्यां वीरैकरसभावितः । कंसेनाग्राहयद्धीरः पताकां यदुनंदनः ॥९॥ गत्वाऽसौ स समारुह्य विद्यासिंहमयं रथं । सिंहशंखलमच्छेत्सीत् शरैस्ते हरयोप्यगुः ॥१०॥ शत्रुमुत्पत्य कंसस्तं बबंध गुरुशासनात् । दर्शितो वसुदेवेन जरासंधाय सोप्यरिः ॥११॥ दृष्ट्वा च तेन तुष्टेन सुतोपनयनं प्रति । वसुदेवः समादिष्टः कंसेनारेहं जगौ ॥१२॥ पृष्टः कंसो नृपेणाख्यत् स्वजातिमिति भूपते । मम रंजोदरी माता कौशांब्यां शीधुकारिणी ॥१३॥ कंसवाक्यमिति श्रुत्वा ततो राजेत्यचिंतयत् । आकृतिः कथयत्यस्य नायं सीधुकरीसुतः ॥१४॥ आनीनयन्नृपं मंक्षु कौशांब्यास्तां निजैस्ततः । प्राप्ता रंजोदरी त्वात्तमंजूषा नाममुद्रिका ॥१५॥ पृष्टा पूर्वापरं राज्ञा व्यजिज्ञपदिति प्रभो । यमुनायाः प्रवाहेऽयं लब्धो मंजूषया सह ॥१६॥ संवर्द्धितः शिशू राजन् मया कारुण्ययुक्तया । उपालंभसहस्राणां भूयो भाजनभीतया ॥१७॥ स्वभावाचंडाँडोयमर्भकान् दुर्भगोऽर्भकः । रमयत्र शिरस्ताडाद्विना क्रीडति पुण्यवान् ॥१८॥
३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org