________________
हरिवंशपुराणं।
४२९
श्रयस्त्रिंशः सर्गः। स भ्रात्रा वार्यमाणोऽपि पर्यटन शकटं शठः । उपरिष्टात्ततोग्राहेरवाहयदनिष्टकृत् ॥ १५९ ॥ भग्नभोगा भुजंगी तु म्रियमाणातिदुःखतः । अकामनिर्जसयोगात् मानुष्यगतिमार्जयत् ॥१६०॥ मृत्वा श्वेतांबिकापुर्या वासवस्य महीपतेः । जाता वसुंधरी गर्ने देवी नंदयशास्वियं ॥१६॥ सोऽयं यक्षलिको नाम्ना निर्नामा मुनिमारणात् । निर्दयत्वाच पूर्वत्र मात्रा विद्वेषतां गतः ॥१६॥ श्रुत्वा तद्विशतक्षत्रै राजा संसारभीरुधीः । देवनंदे श्रियं न्यस्य तस्यांते दीक्षितो मुनेः॥१६३॥ राजपुत्राश्च ते सर्वे श्रेष्ठी शंखश्च दीक्षितः । सुनिर्मलं तपश्चर्भवचक्रनिवृत्तये ।। १६४ ॥ राज्ञी चापि सधात्रीका बंधुमत्या सहाश्रिता । प्रव्रज्यां सुव्रतार्याते सुव्रतत्रातभूषितां ॥ १६५ ॥ कुर्वनिर्नामकस्ती सिंहनिःक्रीडितं तपः । निदानमकरोदन्यजनने जनकांतिकं ॥ १६६ ।। धात्री मानुष्यकं प्राप्ता पुरे भद्रिलसाहये । सुदृष्टिश्रेष्ठिनो भार्या वर्तते ह्यलकाभिधा ।। १६७ ॥ गंगाद्या देवकीगर्भे षडपि द्वंद्वभाविनः । उत्पत्स्यंते क्रमेणकविक्रमैकमहार्णवाः ॥ १६८ ॥ हारिणा स्वर्गिणा धात्री सूत्रामादेशकारिणा । प्राप्स्यते यातमात्रेण तत्राप्स्यति च यौवन।। १६९।। नृपदत्तोऽग्रजस्तेषां देवपालस्तथाऽपरः । तृतीयोऽनीकदत्तस्तु तुरीयोऽनीकपालकः ॥ १७० ॥ शत्रुघ्नजितशत्रुस्ताविति नामभिरीरिताः । रूपेण सदृशाः सर्वे भविष्यति तवात्मजाः ॥ १७१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org