________________
हरिवंशपुराणं ।
७६८
यः प्रबोधमुषसि प्रपद्यसे सोद्य वीर ! विरसैः शिवारुतैः ||३९|| त्वत्प्रवृत्तिमिव वेदितुं परः पूर्वमित्रपतिसुप्रयुक्तया ।
संध्याप्युपसि सानुरागया रज्यते शयनतो विरज्यतां ॥ ४० ॥ अभ्युदेति करभिन्नपंकजश्रीसमग्रमुदयाचलादयं ।
द्राक् प्रधानपुरुषायतेऽधुना दातुमर्धमिव धर्मदीधितिः ॥४१॥ चाटुकारशतमत्र सीरिणा प्राणवल्लभतया कृतं हरौ ।
निष्फलं सफलमप्यभूत्पुरा गाढसुप्त इव मुग्धबालके ॥ ४२ ॥ तं प्रधृत्य भुजपंजरोदरे स्पर्शनेंद्रियसुखं भजन् शिशोः ।
जन्मनीव वनमध्यमाट स छत्रधारपुरकंसशंकया ॥४३॥ इत्यनेकदिनरात्रियापनैः सोत्यतंद्रितमनोव चोवपुः ।
प्रत्यहं हरिपुर्वहन् भ्रमन् प्रत्यपद्यत रतिं न कानने ॥ ४४ ॥ तीव्रधर्मसमयत्यये ततः प्रावृषा शमितधर्मसंपदा । गर्जदंबुदघटांनुवर्षणैः प्रापितं जगदितस्ततः शिवं ||४५ ॥
Jain Education International
For Private & Personal Use Only
त्रिषष्टितमः सर्गः ।
www.jainelibrary.org