________________
हरिवंशपुराणं।
७६७
त्रिषष्टितमः सर्गः। देवभक्त भज सांध्यवंदना वंध्यया किमपि देव ! निद्रया ।
संध्ययापि गलितं गलद्रुचा वेगवद्रविरथानुबंध्यया ॥ ३३ ।। एकवर्णमखिलं जगत्खला कुर्वती समवसर्पति द्रुतं । ___ध्वांतसंततिरपेतदर्शना कालवृत्तिरतिदुःषमा यथा ॥ ३४ ॥ श्वापदानि पदशब्दगंधतो प्राणकणबर्लवंति विंदते ।
एहि दुर्गमिह संश्रयावहे क्षेमतो व्रजति तत्र नौ निशा ॥ ३५ ॥ चित्रिते कुसुमचित्रमंडपे दत्तबंधुनृपलोकदर्शनः ।
श्रीयुषि स्वपिषि यो वधूजनैः सोपधानशयने महामृदौ ॥ ३६॥ त्वं महीध्रवनरंध्रवृत्तिभिगुद्धकाककुलजंबुकादिभिः ।
सोद्यभक्षकगणैरुपासितः श्रीपते स्वपिति तक्षितक्षितौ ॥ ३७॥ कामिनीप्रणयकेलिकोपिनीस्त्वं प्रसाद्य कुपितः प्रसादितः।।
यः पुरा नयति यामिनी रतैः सोय कि विगतचेतनात्मना ॥३८॥ चारुवारवनितासुगीतकैर्वदिवृंदपटुपाठनिस्वनैः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org