________________
हरिवंशपुराणं ।
त्रिषष्टितमः सर्गः । लोकसारमपहारितं मया सनिधौ तु मम कोस्य हारकः ॥ २६ ॥ कंसकोपमदपर्वताशने भूनभोगविषधृग्गरुत्मनः ।
पीतमागधयशोऽजुधेरभूद्रोष्पदे वत निमजनं तव ॥ २७ ॥ शार्वरं तिमिरमुग्रतेजसा शात्रवं त्वमिव निर्विध्य यः।
विष्टपं तपति विष्टरश्रवः पश्य सोऽस्तमुपयात्यहपतिः ॥ २८ ॥ दीर्घनिद्रमिव वीक्ष्य संहृतैरस्तमस्तकनिवेशितैः करैः। __त्वां विशोचति रवि वां त्रये स्वाप एष तव कस्य नो शुचे ॥ २९ ॥ वारुणीमतिनिषेव्य वारुणश्चक्रवाकनिवहरुदश्रुभिः।
शोचितः पतति भानुमानधः को न वा पतति वारुणीप्रियः ॥ ३० ॥ शोकभारमपनीय सांप्रत सनिमज्जति पयोनिधौ रविः ।
दातुमेष तव वा जलांजलिं कालविद्धि कुरुते यथोचितं ॥ ३१ ॥ सांध्यरागपटलेन सर्वतः पश्य संस्थगितमंग विष्टपं ।
त्वय्यति-स्वपिति रोदनोद्गतैरक्षिरागनिवहैरिहांगिनां ॥ ३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org