________________
७६४
त्रिषष्टितमः सर्गः।
-
हरिवंशपुराणं।
स्नेहपाशदृढबंधनो हली प्राणहानमकरिष्यदन्यथा ॥१३॥ बोधमाप्य परितः परामृशन् केशवस्य वपुरात्मपाणिना।
पश्यतिस्म चरणवणव्रजं तीव्रगंधरुधिरारुणक्षमं ॥१४॥ सुप्त एव विषमेषुणा हरिः विद्धः एव चरणेन केनचित् ।।
दुष्प्रबोधहरिमारकोऽत्र कोऽपूर्वमद्य मृगयाफलं श्रितः ॥१५॥ इत्युदीर्य कुपितो हली बली सिंहनादमकरोद्भयंकरं ।।
व्यापिनं विपिनदुर्गसंचरव्याघ्रसिंहकरिदर्पशातनं ॥१६॥ संजगौ च शयितो ममानुजः छद्मना विधिविधानयोगतः।
येन केनचिदहेतुवैरिणा संददातु लघु सोऽध दर्शनं ॥१७॥ सुप्तमात्रमपशस्त्रमानतं मुक्तमानमसकृत्पलायिनं ।। __ प्रत्यवाययुतमंगनां शिशुं नंति शत्रुमपि नो यशोधनाः ॥१८॥ उच्चकैरिति गदन समंततः संप्रधाय किमदप्यवांतरं ।
सोऽन्यदीय पदवीमनाप्नुवनेत्य कृष्णमुपगृह्य रोदिति ॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org