________________
हरिवंशपुराणं ।
७६३
आदधाव पदधूतधूलिभिर्धूसरीकृतशरीरमूर्धजः । कंपमानहृदयः सशंकया प्रत्यपायबहुले वने हरौ ॥७॥ दूरतस्तमथ तत्र दृष्टवान् संवृतांगमभितोंऽवरेण सः । आस्त एव भुवि यत्र शायितः सूरिसौरिरिति दीर्घनिद्रया ||८|| सुप्त एव सुखनिद्रा हरिः सुप्रबोधमुपगच्छतु स्वयं । इत्यपेक्ष्य हरिबोधनं तदा तत्प्रबोधनमसौ प्रतीक्ष्यते ||९|| वीर ! किं स्वपिषि दीर्घमित्यलं स्वापमुज्झ पिब तोयमिच्छया । इत्युदीर्णमधुरस्वरः पुनः सन्निरुध्य वचनोऽवतिष्ठते ॥ १०॥ सीरिणा क्षतजगंधतस्ततः कृष्णसंवरणवाससोंतरे । संप्रवेशनिजनिर्गमाकुलाः प्रेक्षि तीक्ष्णमुखकृष्णमक्षिकाः ।। ११ ।। संघटिततन्मुखो हरिं वीक्ष्य वांतजनकांतजीवितं ।
•
Jain Education International
हा हतोऽस्मि मृत एव तृष्णया विष्णुरित्युपारे तस्य सोऽपतत् ||१२|| मोहमूढमनसोऽस्य मूर्छया प्राप्तयोपकृतमप्यनिष्टया ।
त्रिषष्टितमः सर्गः ।
For Private & Personal Use Only
www.jainelibrary.org