________________
त्रिषष्टितमः सर्गः।
हरिवंशपुराणं।
७६२
त्रिषष्टितमः सर्गः। स्नेहवानथ जलार्थमाकुलो विष्णुमात्मनि वहन् हुलायुधः।
वारितोऽपि शकुनैः पदे पदे दूरमंतरमितो वनांतरे ॥ १ ॥ धावतोऽस्य मृगयूथवर्मना लोभितस्य मृगतृष्णिकांभसा ।।
प्रत्यभासत दिशां कदंबकं प्रोत्तरंगसरसीमयं तदा ॥२॥ अभ्यलोक कलिता कलस्वनैश्चक्रवाककलहंससारसैः ।।
सीरिणाथ सरसी तरंगिणी भंगनादितसंरोजसकुला ॥३॥ चेतसास्य सहसा तदीक्षणादीर्घमुच्छसितमंगसंगिना ।
मारुतेन शिशिरेण सौहृदं सन्मुखेन गदितं सुगंधिना ॥ ४ ॥ संपतद्भिरभितः पिपासुभिः श्वापदैः सभयमीक्षितस्ततः ।
आससाद सरसी स सादरो वन्यहस्तिमदवारिवासितां ॥ ५ ॥ वारितीर्थमवगाह्य शीतलं संप्रपाय निरपास्य तृव्यथा ।
पद्मपत्रपुटिकां स वारिणा संप्रपूर्य परिवृत्य वाससा ॥ ६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org