________________
हरिवंशपुराणं।
७६०
द्विषष्टितमः सर्गः। सोऽपि ज्ञात्वानुजं प्राप्तो हाकारमुखराननः । क्षितिक्षिप्तधनुर्बाणो निपत्यास्थाच पादयोः॥४३॥ उत्थाप्य तं हरिः प्राह कंठलग्नमहाशुचं । मातिशोकं कृथा ज्येष्ठ दुलंध्या भवितव्यता ॥ ४४ ॥ प्रमादस्य निरासाय निरस्तसुखसंपदा । चिरं पुरुषशार्दूल सेविता वनवासिता ॥ ४५ ॥ करोति सज्जनो यत्नं दुर्यशःपापभीरुकः । देवे तु कुटिले तस्य स यत्नः किं करिष्यति ॥४६॥ ततस्तेन हरिः पृष्टो वनागमनकारणं । आदितोऽकथयवृत्तं द्वारिकादाहदारुणं ॥४७॥ श्रुत्वा गोत्रक्षयः सोऽपि प्रलापमुखरोऽवदत् । हा भ्रातः कृतमातिथ्यं मया ते चिरदर्शतात्॥४८॥ किं करोमि क गच्छामि क लभे चित्तनिवृति । दुःखं च दुर्यशो लोके हंत्रा ते हा मयार्जितं ॥४९॥ इत्यादि प्रलपन्नुक्तः कृष्णेनासौ सुचेतसा । प्रलापं त्यज राजेंद्र कृत्स्नं स्वकृतभुग जगत् ॥५०॥ सुखं वा यदि वा दुःख दत्ते कः कस्य संसृतौ । मित्रं वा यदि वामित्रः स्वकृतं कर्म तत्त्वतः।।५।। तोयार्थ मे गतो रामो यावन्नायाति सत्वरं । प्रयाहि तावदक्षांतिः कदाचित्स्यात्वयि प्रभो ॥५२।। गच्छ त्वमादितो वातां पांडवेभ्यो निवेदय । हितास्तेऽस्मत्कुलस्याप्ताः करिष्यति तव स्थिति॥५३॥ उक्त्वेति कौस्तुभं तस्मै दत्वाभिज्ञानमादरात् । परावृत्त्यांतरं स्तोकं व्रजेति प्रतिपादितः ।।५४॥ उक्त्वासौ क्षम्यतां देव ममेति करकौस्तुभः । शनैरुद्धृत्य तं वाणं परावृत्तपदोऽगमत् ।। ५५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org