________________
७५९
हरिवंशपुराणं ।
द्विषष्टितमः सर्गः । यो हरिस्नेहसंभारो हरिप्राणरिरिक्षया । द्वारिकाया विनिर्गत्य प्राविशन्मृगवद्वनं ॥३०॥ स तत्र विधिनानीय तदानीं विनियोजितः । अद्राक्षीद्रतोऽस्पष्टं किंचिदने धनुर्धरः ॥ ३१ ॥ मरुचलितवस्त्रांतजनितभ्रांतिरंतिके । प्रसुप्तमृगकोयं चलतीति विचित्य सः ॥ ३२ ॥ गुल्मगूढवपुर्गाढमाकर्णाकृष्ट कार्मुकः । विव्याध व्याधधीस्तीक्ष्णशरेण चरणं हरेः ।। ३३ ॥ विद्धतालपदः शौरिरुत्थाय सहसाखिलाः । दिशो निरीक्ष्य सो दृष्टा परमुच्चैर्जगाविति ॥ ३४॥ विद्धपादतलोहं भो केनाकारणवैरिणा । कथ्यतां कुलमात्मीयं नाम च स्फुटमत्र मे ॥ ३५ ॥ अज्ञातकुलनामानं नरं नावधिषं रणे । कदाचिदपि योहं ही किं ममेदमुपागतं ॥ ३६॥ तद् ब्रवीतु भवान् को भी यज्ज्ञातकुलनामकः । अज्ञातवैरसंबंधो वने जातो ममांतकः ।। ३७॥ इत्युक्ते सोऽब्रवीदस्ति हरिवंशोद्भवो नृपः । वसुदेव इति ख्यातः पिता यो हलिचक्रिणोः॥३८॥ मनुर्जरत्कुमारोऽस्मि तस्याहमतिवल्लभः । एकवीरो भ्रमाम्यत्र वने भीरुदुरासदे ॥ ३९ ।। सोहं नेमिजिनादेशभीरुर्वनचरर्वने । द्वादशाब्दप्रमाणं च वसाम्यत्र प्रियानुजः ॥ ४० ॥ इयंतं वसता कालमरण्ये वचनं मया । आर्यलोकस्य कस्यापि न श्रुतं को भवानिह ।। ४१ ॥ इति श्रुत्वा हरिज्ञात्वा भातरं स्नेहकातरः । एलेहि भ्रातरत्रेति संभ्रमेण तमाहयत् ॥ ४२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org