________________
७५८
हरिवंशपुराणं।
द्विषष्टितमः सर्गः। ग्रीष्मोग्रतापपरुषवहन्मारुतदुस्सहं । दावदग्धलताजालगुल्मपादपखंडकं ॥ १७ ॥ असंभाव्यांभसि भ्राम्यत्-श्वापदश्वासशब्दके । वने वनेचरोद्भिन्नकुंभिकुंभास्तमौक्तिके ॥१८॥ आरोहति वियन्मध्यं सुतीने तीव्ररोचिषि । जगी जनार्दनो ज्येष्ठं गुणज्येष्ठमिति श्रमी ॥१९॥ पिपासाकुलितोयर्थमार्य शुष्कौष्ठतालुकः । शक्नोमि पदमप्येकं न च यातुमतः परं ॥ २० ॥ तत्पायय पयः शीतमार्य तृष्णापहारि मां । सद्दर्शनमिवानादौ संसारे सारवर्जिते ॥ २१ ॥ इत्युक्ते स्नेहसंचारसमाीकृतमानसं । स जगाद बलः कृष्णमुष्णनिश्वासमोचिनं ॥ २२ ॥ ततः शीतलमानीय पानीयं पाययाम्यहं । त्वं जिनस्मरणांभोभिस्तावत्तृष्णां विमर्दय ॥२३॥ निरस्यति पयस्तृष्णां स्तोकां वेलामिदं पुनः । जिनस्मरणपानीयं पीतं तां मूलतोऽस्यति ॥२४॥ छायायामस्य वृक्षस्य शीतलायामिहास्यतां । आनयामि जलं तेऽहं शीतलं शीतलाशयात्।।२५।। अग्रजः प्रतिपाद्यैव मनुजं मनसा वहन् । जगाम जलमानेतुं निजं श्रममचिंतयन् ॥ २६ ॥ कृष्णोऽपि च यथोद्दिष्टां तरुच्छायां घनां श्रितः। क्षितौ मृदु मृदिश्लष्णवाससा संभृतांगकः॥२७॥ वामे जानुनि विन्यस्य दक्षिणं चरणं क्षणं । श्रमव्यपोहनायासा वसेत गहने हरिः ॥ २८ ॥ वं प्रदेशं तदेवासौ जरासूनुर्यदृच्छया । एकाकी पर्यटन्त्राप्तो मृगयाव्यसनप्रियः ॥ २९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org