________________
७५७
हरिवंशपुराणं ।
द्विषष्टितमः सर्गः । गतोन्नपानमानेतुं कृतसंकेतकोग्रजः । वस्त्रसंवृतसागः प्रविष्टश्च ततः पुरं ॥५॥ अच्छदंतो नृपस्तत्र धार्तराष्ट्रोऽवतिष्ठते । पृथिव्यां प्रथितो धन्वी यदुरंध्रदुरंतधीः ॥ ६ ॥ जनैनितसंघट्टै रूपपाशवशीकृतैः । प्रविश्य तत्पुरी वीरो दृश्यमानः सविस्मयैः ॥ ७ ॥ कंठकं कुंडलं चापि दत्वा कस्य चिदापणे । अन्नपानमुपादाय निर्गच्छन् वीक्ष्य रक्षकैः ॥ ८॥ विज्ञाय बलदेवोयमिति राजे निवेदितः । ततस्तेन वधायास्य प्रेषितं सकलं बलं ॥९॥ संघट्टोभूत्पुरद्वारे सैन्यस्य बलरोधिनः । बलेन संज्ञया हूतः कृष्णश्च द्रुतमागतः॥१०॥ अन्नं पानं च सुस्थाप्य गजस्तंभ बलोऽग्रहीत् । कृष्णस्तु परिघं घोरं किंचित्कुपितमानसः॥११॥ चतुरंग ततः सैन्यं सनायकमितस्ततः । हन्यमानं ननाशाभ्यां बिह्वलीभूतमानसं ॥ १२॥ समादायानपानं तौ निर्गत्य नगरात्ततः । वनं विजयमागत्य सरो रम्यमपश्यतां ॥१३॥ स्नात्वा सरसि तो तत्र जिनं नत्वा मनःस्थितं । चित्रमभ्यवहृत्यानं पयः पीत्वातिशीतलं ॥१४॥ विश्रम्य च क्षणं वीरौ प्रयातो दक्षिणां दिशं । कौशांब्याख्यं वनं भीमं प्रविष्टौ परदुर्गमं ॥१५॥ खगरावखरारावमुखरीकृतदिग्मुखं । तृष्णामृगस्थानां गम्यं प्रोन्मृगतृष्णकं ।। १६ ॥
१ ‘स तत्पुरं' इति ख पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org