________________
हरिवंशपुराणं।
७५४
' एकषष्टितमः सर्गः । अन्यथा देवराजस्य राजराजेन शासनात् । निर्मिता रक्षता चासौ दह्यते कथमग्निना ॥ ७८ ॥ रक्षता बलकृष्णौ च चिरेणाग्निभयार्दिताः । इति स्त्रीबालवृद्धानामालापा ययुराकुलाः॥ ७९ ॥ आकुलौ बलकृष्णौ च भित्वा प्राकारमंबुधेः । विध्यापयितुमालग्नौ प्रवाहस्तं हुताशनं ।। ८०॥ सागरांबु हलाकृष्टं हलिना बलशालिना । जज्वाल ज्वलनस्तेन तैलभावमुपेयुषा ॥ ८१ ॥ असाध्यतां विदित्वाग्नेर्जनन्यौ जनकं जनं । सुबहुं रथमारोप्य संयोज्य गजवाजिनः ।। ८२ ॥ रथं नोदयतो क्षोण्यां रथचक्राणि पंकवत् । निमज्जंति विपत्काले क गजा वाजिनः क च ॥८३॥ स्वयमेव रथं दोामाकृष्य प्रयतोस्तयोः । निरुद्धः कीलयित्वाऽसाविंद्रकीलेन पापिना १८४॥ अवष्टनति पादेन यावत्कीलं हलायुधः । पिहितं गोपुरद्वारं तावदैत्येन कोपिना ॥ ८५ ॥ कपाटं पादघातेन ताभ्यां पातितमाशु तत् । द्विषोक्तं निर्गमोऽन्यस्य युवाभ्यां नानुविद्यते ॥८६॥ ततः पित्रा च मातृभ्यां पुत्रौ यातमितीरितौ । विनिश्चित्योपसंहारमात्मीयामिति दुःखिभिः॥८७॥ भवतोः जीवतोः पुत्रौ कदाचिद्वंशसंततिः । न क्राम्येदप्यतो घातीमीत तद्वाक्यमस्तकौ ॥८८॥ तान्प्रशाम्य गतौ दीनौ दुःखितौ दुःखपीडितान् । प्रपत्य पादयोर्यातौ गुरुवाक्यकरौ पुरः।।८९॥ निर्गत्य निर्गती पुर्या ज्वालालीलोढवेश्मनः । रुदित्वा कंठलग्नौतौ दक्षिणां दिश्चमाश्रितौ ।।९०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org