________________
हारेवंशपुराणं ।
एकषष्टितमः सर्गः। इतोऽपि वसुदेवाद्या यादवाश्च तदंगनाः । प्रायोपगमनं प्राप्ता संप्राप्ता बहवो दिवः ॥ ९१ ॥ केचिच्चरमदेहास्तु बलदेव-सुतादयः । गृहीतसंयमा नीता लं (ज) भकैर्जिनसनिधि ॥ ९२ ॥ यदूनां यादवीनां च धर्म्यध्यानवशात्मनां । सम्यग्दर्शनशुद्धानां प्रायोपगममाश्रितां ॥ ९३ ॥ बहूनां दह्यमानानामपि देहविनाशनः । यातो हुताशनो रौद्रो न तु ध्यानविनाशनः ॥ ९४ ॥ आर्तध्यानकरः प्रायो मिथ्यादृष्टिषु जायते । उपसर्गश्चतुर्मेदो न सदृष्टस्तु जातुचित् ।। ९५ ॥ आगाढे वाप्यनागाढे मरणे समुपास्थिते । न मुह्यति जना जातु जिनशासनभाविताः ॥ ९६ ॥ मिथ्यादृष्टेः सतो जंतोमरणं शोचनाय हि । न तु दर्शनशुद्धस्य समाधिमरणं शुचे ॥ ९७ ॥ मृतिर्यातस्य नियता संसृतौ नियतेर्वशात् । सा समाधियुजो भूयादुपसर्गेऽपि देहिनः ॥ ९८ ॥ धन्याः शिखिशिखाजालकवलीकृतविग्रहाः । अपि साधुसमाधाना ये त्यति कलेवरं ॥९९ ॥ तपो वा मरणं वापि शस्तं स्वपरसौख्यकृत् । तच्च द्वीपायनस्यैव स्वपरासुखकारणं ॥ १०० ।। परस्यापकृतिं कुर्वन् कुर्यादेकत्र जन्मनि । पापी परवधं स्वस्य जंतुर्जन्मनि जन्मनि ॥१०१॥ कषायवशगः प्राणी हंता स्वस्य भवे भवे । संसारवर्धनोऽन्येषां भवेद्वा वधको न वा ॥ १०२ ॥ परं हन्मीति संध्यातं लोहपिंडमुपाददत् । दहत्वात्मानमेवादौ कषायवशगस्तथा ॥ १.३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org