________________
हरिवंशपुराणं ।
७५३
एकषष्टितमः सर्गः । इत्यादिप्रियवादिभ्यां प्रार्थ्यमानो निवर्तकः । सप्राणिद्वारिकादाहे पापधीः कृतनिश्चयः ||६५|| संज्ञयादर्शयत्ताभ्यामंगुलीद्वयदर्शनं । युवयोरेव मोक्षोत्र नान्यस्येति परिस्फुटं ।। ६६ । अतिवर्तकरोषं तं विदित्वा विदितक्षयौ । विषण्णौ तौ पुरी यातौ किंकर्तव्यत्वविद्दलौ ||६७ || शंबाद्यास्तु तदानेके यादवाश्रारमांगकाः | पुर्या निष्क्रम्य निष्क्रांतास्तस्थुर्गिरिगुहादिषु ||६८ || मृत्वा क्रोधाग्निनिर्दग्धतपः सारधनश्च यः । बभूवाग्निकुमाराख्यो मिथ्यादृग्भवनामरः ॥ ६९ ॥ अंतर्मुहूर्त कालेन पर्याप्तः प्रतिबुद्धवान् । विभंगेन विकारं स्वं कृतं यदुकुमारकैः ॥ ७० ॥ रौद्रध्यानं सदध्यौ मे तपस्यस्य निरागसः । हिंसकानां पुरीं सर्वा दहामि सह जंतुभिः ॥ ७१ ॥ इति ध्यात्वा सुदुर्वारो यावदायाति दारुणः । द्वारावत्यां महोत्पातास्तावज्जाताः क्ष्यावहाः॥ ७२ ॥ बभूवुः प्रत्यगारं च रोमहर्षविकारिणः । प्रजानां निशि सुप्तानां स्वप्नाश्च भयशंसिनः ||७३ || प्राप्य पापमतिश्वासौ पुरीमारभ्य बाह्यतः । कोपी दग्धुं समारेभे तिर्यग्मानुषपूरितां ॥ ७४ ॥ धूमज्वालाकरान् वृद्धस्त्रीबालपशुपक्षिणः । नश्यतोग्रौ क्षिपत्येष कारुण्यं पापिनः कुतः ॥ ७५ ॥ प्राणिजातस्य सर्वस्य जातवेदसि मज्जतः । आक्रंदनस्वना जाता येऽत्र जाता न जातुचित् ॥ ७६ ॥ दिव्येन दह्यमानायां दहनेन तदा पुरि । नूनं कापि गता देवा दुर्वारा भवितव्यता ॥ ७७ ॥
४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org