________________
७५२
हरिवंशपुराणं।
एकषष्टितमः सर्गः । असंबद्धानि गायतो नृत्यंतः स्खलितक्रमाः। मुक्तकेशाः कृतोत्तंसा कंठालंबिवनस्रजः ॥ ५२ ॥ आगच्छंतः पुरः सर्वे दृष्ट्वार्काभिमुखं मुनिं । प्रत्यभिज्ञाय चावोचन घूर्णमाननिरीक्षणाः ॥५३॥ सोयं द्वीपायनो योगी द्वारावत्या किलांतकृत् । भवितास्माकमद्याग्रे क प्रयाति वराककः ॥५४॥ इत्युक्त्वा तं कुमारास्ते लोष्टुभिः सर्वतोश्मभिः । प्रजघ्नुनिघृणास्तावद्यावत्पतति भूतले ॥५५॥ क्रोधाधिक्यात्ततो दधे दष्टोष्ठो भृकुटीकुटीं । प्रलयाम यदूनां सः प्रायः स्वतपसोऽपि च ॥५६।। प्रविष्टास्तु पुरीं व्याला व्याला इव चलाचलाः । कुमाराः कैश्चिदुक्तं तु दुर्वृत्तं लघुविष्णवे ।।५७॥ बलनारायणौ श्रुत्वा द्वीपायनमुपश्रुतं । द्वारिकायाः क्षयं प्राप्तं मनाते जिनभाषितं ॥५८ ॥ संभ्रमेण परिप्राप्तौ परित्यक्तपरिच्छदौ । मुनि क्षमयितुं क्रोधाज्ज्वलंतमिव पावकं ॥ ५९॥ दृष्टः संक्लिष्टधीस्ताभ्यां भ्रूभंगविषमाननाः । दुर्निरीक्ष्येक्षणः क्षीणः कंठप्राणो विभीषणः॥६०॥ कृतांजलिपुटाभ्यां स प्रणिपत्य महादरात् । याच्यते याचना बंध्यं जानद्भयामपि मोहतः॥६१।। रक्ष्यतां रक्ष्यतां साधो चिरं सुपरिरक्षितः । क्षमामूलस्तपो भारो धक्ष्यते क्रोधवन्हिना ॥६२॥ मोक्षसाधनमप्येष तपो दूषयति क्षणात् । चतुर्वर्गारपुः क्रोधः क्रोधः स्वपरनाशकः ॥ ६३ ॥ क्षम्यतां क्षम्यतां मूढः प्रमादबहुलैः कृतं । दुर्विचेष्टितमस्मभ्यः प्रसादः क्रियतां यते ॥ ६४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org