________________
हरिबंशपुराणं।
७२८
पष्टितमः सर्गः। आयुर्लक्षा बलानां स्युः सप्ताशीतिश्च सप्ततिः । सप्तोत्तरा तथा षष्टिः पंचत्रिंशद्दश क्रमात् ॥३२२॥ षष्टिवेषेसहस्राणि त्रिंशद्दश च सप्तभिः । द्विशत्याब्दसहस्त्रं तु तच्चरमस्य बलस्य तु ।। ३२३ ॥ वृषाद्याः धर्मपयंता जिनाः पंचदश क्रमात् । निरंतरास्ततः शून्ये त्रिजिनाशून्ययोर्द्वयं ॥३२४॥ जिन शून्यद्वयं तस्माज्जिनः शून्यद्वयं पुनः । जिने शून्यं जिनः शून्यं द्वौ जिनेंद्रौ निरंतरौ ॥३२५॥ चक्रिणी भरताद्यौ द्वौ तौ शून्यानि त्रयोदश । षट् चक्रिणस्त्रिशून्यानि चक्री शून्यं च चक्रभृत् ३२६ ततः शून्यद्वयं चक्री शून्यं चक्रधरस्ततः । शून्ययोतियं तस्मादिति चक्रधरक्रमः ॥ ३२७ ॥ शून्यानि दशपंचातस्त्रिपृष्टाद्यास्तु केशवाः । शून्यषट्कं ततश्चैकः केशवो व्योमकेशवः ॥३२८॥ त्रिशून्यं केशवश्चैकः शून्यद्वितयमप्यतः । केशवस्त्रीणि शून्यानि केशवानामयं क्रमः ॥ ३२९ ॥ पादः कुमारकालः स्यादायुषो वृषभस्य सः।न्यूनः संयमकालस्य राज्यकालस्ततोऽपरः॥३३०॥ पादोष्टादशसंख्यानां पूर्णः शेषजिनेशिनां । कुमारकालः शेषस्य राज्यसंयमकालता ॥ ३३१॥ कुमाराणां जिनानां तु संयमानेहसोज्झितः । आयुः कालः सकुमारः पंचानामपि वर्ण्यते ॥३३२॥ जिनसंयमकालस्तु पूर्वलक्षाथ सोज्झिता । पूर्वांगेन चतुर्भिश्च ह्यष्टाभिद्वादेशांगकैः ॥ ३३३॥ ततः षोडशभिहीनो विंशत्या तु ततः परं । चतुर्विंशतिपूर्वागैरष्टाविंशतिसंख्यकैः ॥ ३३४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org