SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराण । ७२७ षष्टितमः सर्गः । द्वाविंशतिर्महापद्म विंशतिश्च चतुर्दश । ततः सप्त धनूंषि स्यादुत्सेधश्चक्रवर्तिनां ॥ ३०९ ॥ अशीतिः सप्ततिःषष्टिः पंचाशत्पंचभिः सह । चत्वारिंशद्धनूंषि स्युः षड्विंशतिस्ततः परः॥३१०॥ द्वाविंशतिस्तथोक्तानि षोडशापि दशैव तु । उत्सेधो वासुदेवानां बलदेवप्रतिद्विषां ॥ ३११ ।। आयुश्चतुरशीतिश्च पूर्वलक्षा जिनेशिनां । द्वासप्ततिश्च षष्टिश्च पंचाशच यथाक्रमं ॥ ३१२ ।। चत्वारिंशत्तथा त्रिंशदिशतिश्च दशैव ताः । लक्षे लक्षं च पूर्वाणां दशानामायुरीरितं ।। ३१३॥ वर्षलक्ष्यास्ततो लक्ष्या अशीतिश्चतुरुत्तरा । द्वासप्ततिस्ततः षष्टिस्त्रिंशद्दश तथैककं ।। ३१४ ।। ततो वर्षसहस्राणि सपंचनवतिश्च तु । अशीतिः पंचपंचाशस्त्रिंशद्दश तथैककं ॥ ३१५ ॥ ततो वषेशतं पूर्ण द्वासप्ततिरिति क्रमात् । जिनानामायुराख्यातमायुर्वृद्धिं करोतु वः ॥ ३१६ ॥ लक्षाश्चतुरशीतिस्तु द्वासप्ततिरितिक्रमात् । पूर्वाणां वर्षलक्षास्तु पंचत्र्येकाः प्रपंचिताः ॥३१७॥ ततो वर्षसहस्राणि नवतिः पंचभियुता । तथा चतुरशीतिः स्यादष्टाषष्टिस्ततः पुनः ॥ ३१८ ॥ त्रिंशत् पड्रिंशतिस्त्रीणि वर्षसप्तशतानि च । आयुःप्रमाणमेतत्तु कथितं चक्रवर्तिनां ।। ३१९ ।। वर्षाणां चतुरशीतिर्लक्षा द्वासप्ततिस्ततः । षष्टिस्त्रिंशद्दशातोऽपि पंचषष्टिसहस्रकं ॥३२० ।। द्वात्रिंशवादकं च प्रोक्तं वर्षसहस्रकं । केशवानां यथासंख्यमायुः संख्याविदा मता ॥३२१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy