________________
हरिवंशपुराण। .. . ७२६
षष्टितमः सर्गः । मुनिसुव्रतमल्ल्यंतर्महापद्मः प्रकीर्तितः । मुनिसुव्रतनम्यंतर्हरिषेणस्तु चक्रभृत् ॥ २९६ ।। नमिनेम्यंतरे चक्री जयसेनोऽभवत्ततः । ब्रह्मदत्तोऽपि निर्दिष्टो नेमिपार्श्वजिनांतरे ॥ २९७ ॥ अष्टानां सिद्धिद्दिष्टा ब्रह्मदत्तसुभूमयोः । सप्तमी मघवांस्तुर्यो तृतीयं कल्पमाश्रितौ ।। २९८ ॥ श्रेयः प्रभृतिधर्मातान् पंचापश्यन्वलोर्जितान् । त्रिपृष्ठाद्या नृसिंहांताः पंचसंख्यास्तु केशवाः॥२९९॥ पुंडरीकोरमल्यंतर्वासुदेवः प्रकीर्तितः । मुनिसुव्रतमल्यंतर्दत्तनामा तु केशवः ॥ ३०० ।। मुनिसुव्रतनम्योस्तु मध्ये नारायणः स्मृतः । प्रत्यक्षं वंदको नेमेः कृष्णः पद्मसमन्वितः ॥३०१।। एकस्य सप्तमी पृथ्वी पंचानां षष्ठयुदीरिता । पंचम्येकस्य चान्यस्य पर्यतस्य तृतीयभूः॥३०२॥ अष्टानां मुक्तिरुद्दिष्टा बलानां तु तपोबलात् । अंतस्य ब्रह्मकल्पस्तु तीर्थे कृष्णस्य सेत्स्यतः॥३०३।। धनुःशतानि पंचाये हानिः पंचशतोष्टसु । दशानां पंचसु प्रोक्ता पंचानामष्टसु क्षयः ॥३०४॥ उत्सेधः पार्श्वनाथस्य नवारनिमितस्ततः । वीरस्यारत्नयः सप्त जिनोत्सेधः क्रमादयं ॥३०५॥ पंच चापशतान्याचे चक्रिण्युत्सेध इष्यते । चतुःशतानि सार्धानि धषि सगरस्य तु ॥३०६॥ द्वाचत्वारिंशदिष्टानि सार्धानि तु धनूंष्यतः । सानैकेन युक्तानि चत्वारिंशद्धनूंषि तु ॥३०७ ।। चत्वारिंशदयोक्तानि पंचमस्य तु चक्रिणः । पंचत्रिंशत्ततत्रिंशदष्टाविंशतिरष्टमे ॥ ३०८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org