________________
हरिवंशपुराणं ।
७२५
पष्टितमः सर्गः । माल्लिः पंचशतैः सिद्धः शांतिर्नवशतैः सह । सैकैरष्टशतैर्धर्मो द्वादशः सैकषट्शतैः ॥ २८३ ॥ सहस्रर्विमलः षड्भिरनंतस्तैस्तु सप्तभिः । सप्तमः पंचशत्यामा पद्माभोष्टशतेस्त्रिभिः ॥ २८४ ॥ वृषो दशसहस्रेस्तु मुनिभिर्मुक्तिमाश्रितः । प्रत्येकं तु जिना शेषाः सहस्रेण समन्विताः ।।२८५॥ भरतश्चक्रवाद्यः सगरो मघवांस्ततः । सनत्कुमारनामान्यः शांतिः कुंथुररस्तथा ॥२८६।। सुभमश्च महापद्मो हरिषेणो जयोऽपरः । ब्रह्मदत्तश्च पखंडनाथा द्वादशचक्रिणः ॥ २८७ ॥ त्रिपृष्टश्च द्विपृष्टश्च स्वयंभूः पुरुषोत्तमः । पुरुषोपपदौ सिंहपुंडरीको प्रचंडकौ ॥ २८८ ॥ दत्तो नारायणो कृष्णो वासुदेवा नवोदिताः। त्रिखंडभरताधीशाः पराखंडितपौरुषाः ॥२८९॥ विजयोऽचलः सुधर्माख्यः सुप्रभश्च सुदर्शनः । नांदी च नंदिमित्रश्च रामः पो बला नव ॥२९॥ अश्वग्रीवो भुवि ख्यातस्तारको मेरुकस्तथा । निशुंभः शुभदंभोजवदनो मधुकैटमः ॥ २९१ ॥ बलिः प्रहरणाभिख्यो रावणः खेचरान्वयाः । भूचरस्तु जरासंधो नवैते प्रतिशत्रवः ।। २९२ ।। ऊर्ध्वगा बलदेवास्ते निर्निदाना भवांतरे। अघोगाः सनिदानास्तु केशवाः प्रतिशत्रवः ।।२९३॥ वृषभे भरतश्चक्री सगरोप्यजिते जिने । मघवांस्तुर्यश्चक्री च धर्मशात्यंतरे मतौ ॥ २९४ ॥ निजं जिनांतरं ज्ञेयं शांतिकुंवरचक्रिणां । चक्रवर्ती सुभूमोऽभूदरमल्लिजिनांतरे ॥ २९५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org