________________
हरिवंशपुराणं ।
७२४
षष्टितमः सर्गः । वैशाखस्यापुनासिद्धया नमिः कृष्णचतुर्दशी । सिता प्रतिपदं कुंथुः सप्तमीमभिनंदनः ॥२७०॥ शांतेः सिद्धितिथिः सिद्धा ज्येष्ठकृष्णचतुर्दशी । तस्य शुक्लचतुर्थी तु धर्मस्य प्रतिपादिता ॥२७१॥ आषाढकृष्णपक्षस्य विमलस्याष्टमी मता । नेमेः शुक्लाष्टमी मान्या निर्वाणतिथिरिष्यते ॥२७२॥ श्रावणे शुक्लसप्तम्यां पार्श्वस्य परिनिर्वृतिः । श्रेयसः पौर्णमास्यां तु धनिष्टासु प्रतिष्ठिता ॥२७३॥ चंद्राभः शुक्लसप्तम्यां सिद्धो भाद्रपदस्य तु । अष्टम्यां पुष्पदंतोऽस्य शीतलोऽश्वयुजस्य तु ॥२७४॥ निर्वृतः सितपंचम्यां कृष्णायां परिनिर्वृतिः। श्रीवीरस्य चतुर्दश्यां कार्तिकस्य विनिश्चिता ॥२७॥ वृषोऽजितोऽपि च श्रेयान् शीतलश्चाभिनंदनः । सुमतिश्च सुपार्श्वश्च पूर्वान्हे चंद्रभस्तथा ॥२७६।। संभवः पद्मभासश्च पुष्पदंतो भवांतकः । अपरान्हे जिनाः सिद्धा वासुपूज्यजिनस्तथा ॥२७७॥ विमलानंतशांतीनां कुंथोमल्लीशविंशयोः। प्रदोषसमये ज्ञेया निर्वृतिर्नेमिपार्श्वयोः ॥ २७८ ।। धर्मस्यारजिनेंद्रस्य नमिवीरजिनेंद्रयोः । प्रत्यूषे सिद्धिरुद्दिष्टा नष्टाष्टविधकर्मणां ॥ २७९ ॥ वृषस्य वासुपूज्यस्य नेमेः पर्यकबंधतः । कायोत्सर्गस्थितानां तु सिद्धिः शेषजिनेशिनां ॥२८०।। चतुर्दशदिनान्यद्याः संहृत्य विहृतिं जिनः। वीरोहतियं शेषा मासं संहृत्य मुक्तिगाः ॥२८१।। वारस्यैकस्य निर्वाणः षड्डिंशतिसहितस्य तु।पार्श्वस्य सह नेमेः षट्त्रिंशतापंचभिः शतैः ॥२८२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org