________________
हरिवंशपुराणं।
७२३
पष्टितम सर्गः । फाल्गुने कृष्णपक्षस्य त्वेकादश्यां वृषो भृतः। द्वादश्यां केवलं मल्लिः षष्ठयां तु मुनिसुव्रतः॥२५७॥ सप्तम्यामेव संप्राप्तः पक्षे तत्रैव केवलं । सुपार्श्वजिनचंद्रश्च चंद्रप्रमजिनस्तदा ॥ २५८ ।। चतुर्ध्या चैत्रकृष्णस्य पार्श्वदेवस्य केवलं । अमावास्यामनंतस्य जिनेंद्रस्य तदिष्यते ॥ २५९ ॥ पक्षे सिते तृतीयस्यां नमः कुंयोश्च केवलं । दशम्यां सुमतेर्जातं पद्मप्रभजिनस्य च ॥ २६०॥ ज्ञेयं वैशाखशुक्लस्य दशम्यां वीरकेवलं । सिते श्वयुजि पक्षेऽभूनेमेस्तत्प्रतिपद्दिने ॥ २६१ ॥ कार्तिकासितपंचम्यां शंभवस्य सितात्मनि । सुविधेस्तु तृतीयस्यां तद्द्वादश्यामरस्य तु॥२६२॥ पुष्यकृष्णचतुर्दश्यां शीतलः केवलं श्रितः । दशम्यां विमलं शुक्ले शांतिरेकादशे दिने ॥२६३॥ अजितोत्र चतुर्दश्यां केवलं प्रत्यपद्यत । अभिनंदनधर्माख्यौ पौर्णमास्यामवाप तु ॥ २६४ ॥ ज्ञानोत्पत्त्या त्वमावास्या माघस्य श्रेयसा कृता । श्रेयसी वासुपूज्येन द्वितीया शुक्लपक्षजा ॥२६५॥ माघकृष्णचतुर्दश्यां वृषस्य परिनिर्वृतिः । फाल्गुनस्यासिते पक्षे चतुर्थी पद्मभासिनः ॥२६६॥ षष्ठयां सुपार्श्वनाथस्य द्वादश्यां मौनिसुव्रतः। सिता फाल्गुनपंचम्यांमल्लिश्रीवासुपूज्ययोः २६७ अमावस्यां तु चैत्रस्य निर्मिताभ्यां पवित्रिता । अनंतारजिनेंद्राभ्यां शुक्लपक्षस्य तु क्रमात् ॥२६८॥ पंचम्यामाजितः षष्ठयां संभवः परिनिर्वृतः । दशम्यां सुमतिनाथः सुरनाथगणस्तुतः ॥२६९ ।।.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org