________________
हरिवंशपुराणं ।
७२२
षष्टितमः सर्गः । चतुर्विंशति संख्यानांसंख्यातानि यथाक्रमं । जिनानां वृषभादीनां पारणानगराणि तु ॥२४४॥ स श्रेयान् ब्रह्मदत्तश्च सुरेंद्र इव संपदा । राजा सुरेंद्रदत्तोन्य इंद्रदत्तश्च पद्मकः ॥ २४५ ॥ सोमदत्तो महादत्तः सोमदेवश्च पुष्पकः । पुनर्वसुः सुनंदश्च जयश्चापि विशाखकः ॥ २४६ ॥ धर्मसिंहः सुमित्रश्च धर्ममित्रोऽपराजितः । नंदिषेणश्च वृषभदत्तो दत्तश्च सत्रयः ।। २४७॥ वरदत्तश्च नृपतिर्धन्यश्च वकुलस्तथा । पारणासु जिनेंद्रेभ्यो दायकाश्च त्वमी स्मृताः ॥ २४८ ॥ सर्वेषामादिभिक्षासु दातारोऽपि जिनेशिनां । सर्वासु वर्धमानस्य वसुधारानियोगतः॥२४९॥ अर्धत्रयोदशोत्कर्षाद्वसुधारासु कोटयः । तावत्येव सहस्राणि दशनानि जघन्यतः ।। २५० ॥ । आद्यौ द्वौ दायकौ श्यामौ ज्ञेयावत्यौ च वर्णतः । शेषास्तु दायका सर्वे संतप्तकनकप्रभाः॥२५१॥ तपस्थिताश्च ते केचित्सिद्धास्तेनैव जन्मना । जिनांत सिद्धिरन्येषां तृतीये जन्मनि स्मृताः।।२५२॥ वृषभमल्लीशपाचोनामष्टमेन चतुर्थतः । जयाजस्य ययुः शेषा पद्मस्था हानिषष्ठतः ॥ २५३ ॥ ज्ञानाप्तिः पूर्वतालेत्या वृषस्य सकटामुखे । ऊर्जयंते गिरौ नेमेः पार्श्वस्याप्याश्रमांतिके ॥२५४॥ वीरस्य केवलोत्पादः ऋजुकूलासरित्तटे । अन्येषां तु जिनेंद्राणां स्वोद्यानेषु यथायथं ॥ २२५ ॥ वृषभस्य श्रेयसो मल्ले पूर्वान्हे नेमिपार्थयोः । केवलोत्पचिरन्येषामपरान्हे जिनेशिनां ॥ २५६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org