________________
हरिवंशपुराणं ।।
... ७२१ ... षष्टितमः सर्गः । कृष्णस्य मार्गशीर्षस्य दशम्यां सुमतेस्तु तत् । शुक्लप्रतिपदि प्रोक्तं पुष्पदंतजिनेशिनः ॥ २३१॥ तस्यैवारो दशम्यां तु पौर्णमास्यां च संभवः । एकादश्यां तु मल्लीशः परिनिष्क्रमणं श्रितः॥२३२॥ पौषस्य कृष्णपक्षस्य ह्येकादश्यां सुकालजं । ज्ञेयं निष्क्रमणं चंद्रप्रभपार्श्वजिनेंद्रयोः ॥ २३३ ॥ माघस्य कृष्णपक्षस्य द्वादश्यां शीतलस्य च । विमलस्य सितायां हि चतुर्थी परिकीर्तितं २३४ अजितस्य नवम्यां तु द्वादश्यामाभिनंदनः । धर्मस्य तु त्रयोदश्यां परिनिष्कमणं मतं ॥ २३५ ॥ फाल्गुनासितपक्षस्य त्रयोदश्यां जिनेशिनः । श्रेयसो वासुपूज्यस्य चतुर्दश्यां तदीरितं ॥ २३६॥ वर्षेण पारणाद्यस्य जिनेंद्रस्य प्रकीर्तिता । तृतीयदिवसेऽन्येषां पारणा प्रथमा मता ॥ २३७ ॥ आयेनेक्षुरसो दिव्यः पारणायां पवित्रितः । अन्यैर्गोक्षीरनिष्पन्नपरमान्नमलालसैः ॥ २३८ ॥ श्रीहास्तिनपुरं रम्यमयोध्या नगरी शुभा । श्रावस्ती च विनीता च पुरं विजयपूर्वकं ॥ २३९॥ पुरं मंगलकं नाम्ना पाटलीखंडसंज्ञकं । पद्मखंडपुरं कांतं तथा श्वेतपुरं परं ॥ २४० ॥ अरिष्टपुरमिष्टं तुं सिद्धार्थपुरमप्यतः । महापुरमतो नाम्ना स्फुटं धान्यवर्ट पुरं ॥ २४१॥ वर्धमानपुरं ख्यातं पुरं सौमनसायं । मंदरं हास्तिनपुरं तथा चक्रपुरं मतं ।। २४२ ॥ मिथिला राजगृहकं पुरं वीरपुरं तथा । पुरी द्वारवती काम्या कृतं कुंडपुरं पुरं ।। २४३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org