________________
.१९
हरिवंशपुराणं।
षष्टितमः सर्गः । शालः कुंडपुरं वीरः सिद्धार्थः प्रियकारिणी । उत्तराफाल्गुनी पावा पापा निभंतु वः सदा ॥२०५॥ चैत्यवृक्षस्तु वीरस्य द्वात्रिंशद्धनुरुच्छ्रितः । देहोत्सेधाच्च शेषाणां स द्वादश गुणो मतः ॥ २०६॥ सुपार्श्वेशोनुराधायां ज्येष्ठासु च शशिप्रभः । श्रेयानपि प्रतिष्ठासु वासुपूज्योश्विनीषु सः ॥ २०७।। भरणीषु जिनो मल्लिवीरः स्वातिषु सिद्धिभाक् । जन्मनक्षत्रवर्गेषु शेषाणां परिनिर्वृतिः ॥२०८ ॥ शांतिकुंथ्वरनामानस्तीर्थकृच्चक्रवर्तिनः । शेषास्तीर्थकराः सर्वे पृथिवीपतयो नृपाः ॥२०९ ॥ चंद्राभ एव चंद्राभः सुविधिः शंखसत्प्रभः प्रियंगुमंजरीपुंजवर्णः सुपार्श्वतीर्थकृत् ॥ २१०॥ मेघश्यामवपुः श्रीमान् पार्श्वस्तु धरणस्तुतः । पनगर्भनिभाभश्च पद्मप्रभजिनाधिपः॥२११॥ रक्तकिंशुकपुष्पाभो वासुपुज्यो जिनेश्वरः । नीलांजनाचलच्छायो मुनींद्रो मुनिसुव्रतः ॥ २१२ ॥ नीलकंठस्फुरत्कंठरुचिर्नेमिः समीक्षितः । सुतप्तकनकच्छायाः शेषास्तु जिनपुंगवाः ॥ २१३ ॥ निष्क्रांतिर्वासुपूज्यस्य मल्लेनैमिजिनांत्ययोः। पंचानां तु कुमाराणां राज्ञां शेषजिनेशिनां ॥२१४॥ वृषभस्य विनीतायां परिनिष्क्रमणं तथा । नेमेस्तु द्वारवत्यां तु शेषाणां जन्मभूमिषु ॥ २१५॥ निष्क्रांतिः सुयते क्त्वा मल्ले साष्टमभक्तका । तथा पार्श्वजिनस्यापि जयाजस्य चतुर्थका॥२१६॥ षष्ठभक्तभृतां दीक्षा शेषाणां तीर्थदर्शिनः । श्रेयः सुमतिमल्लीशां पूर्वान्हे नेमिपार्श्वयोः ॥ २१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org