________________
षष्टितमः सर्गः ।
हरिवंशपुराण।
७१७ स कृष्णैकादशी पार्श्वः पौषमासस्य भूषयन् । शुक्लत्रयोदशी वीरश्चैत्रस्य जिनजन्मना ॥१८०॥ पितरौ जन्म नक्षत्रं जन्मभूमि जिनेशिनां । चैत्यवृक्षं च निर्वाणभूमिं वच्मि निबुध्यतां॥१८१॥ विनीता मरुदेवी च नाभियग्रोधपादपः । कैलाशश्चोत्तराषाढवृषभो वृषभो नृणां ॥ १८२ ॥ अयोध्या विजया राजा जितशत्रुर्जिनोऽजितः । सम्मेदः सम्मदायास्तु रोहिणी विषमच्छदः१८३ श्रावस्ती-संभवः सेना जितारिः शालपादपः । ज्येष्ठा नक्षत्रमेनांसि सम्मेदश्च पुनंतु वः॥१८४॥ सरलः संवरो योध्या सिद्धार्था च पुनर्वसुः। जिनोऽभिनंदनः शैलः स एवास्तु मुदे सतां ॥१८५।। मेघप्रभो मघायोध्या प्रियंगुश्च सुमंगला । सुमतिः सुमतिर्नित्यं सम्मेदश्च दिशंतु वः ॥ १८६।। कौशांबी धरणश्चित्रा सुसीमा जिनपुंगवः । पद्मप्रभःप्रियंगुश्च मंगलं वः स पर्वतः ।। १८७ ॥ प्रथिवी सुप्रतिष्ठोऽस्य काशी वा नगरी गिरिः। स विशाखा शिरीषश्च सुपार्श्वश्च जिनेश्वरः।१८८॥ वंद्या चंद्रपुरी चंद्रप्रभो नागतरुगिरिः । सोनुराधामहासेनो लक्ष्मणा जननी सतां ॥ १८९ ॥ काकंदी पुष्पदंतश्च रामा सुग्रीवभूपतिः । मूलक्षं मालिवृक्षश्च सगिरिमूतयेऽस्तु वः ॥ १९० ॥ भद्रिला प्रथमाषाढा प्लक्षो दृढरथो नृपः । सुनंदा शीतलः शैलः स एव हितचेतसः ।।१९१॥ विष्णुश्रीविष्णुराजश्च सिंहनादपुरं जिनः । श्रवणः श्रेयान संदास्तिदुकः स च भूधरः ।।१९२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org