________________
७१६
हरिवंशपुराणं।
षष्टितमः सर्गः । सहस्रारात्तु विमलश्रीपार्श्वमुनिसुव्रताः । क्रमासंभवसुविपद्मप्रभजिनाः पुनः ॥ १६७ ।। अधोमध्योपरिप्रख्यौवेयकपरिच्युताः । वासुपूज्यो महाशुक्रादितितीर्थकृतां दिवः ॥ १६८ ॥ वृषभश्चैत्र कृष्णस्य नवम्यामुदपद्यत । माघशुक्लनवम्यां तु तथैवाजिततीर्थकृत् ।। १६९ ॥ उत्पन्नो मार्गशीर्षस्य पौर्णमास्यां हि संभवः। द्वादश्यां माघशुक्लस्य जिनेंद्रस्त्वभिनंदनः॥१७०।। सुमतिः श्रावणस्यासीदेकादश्यां सितात्मनि । ऊर्जकृष्णत्रयोदश्यां पद्मप्रभजिनेश्वरः ॥१७१॥ द्वादश्यां ज्येष्ठमासस्य शुक्लायां सप्तमो जिनः। पौषस्य कृष्णपक्षेभूदेकादश्यां जिनोऽष्टमः॥१७२।। सुविधिमोगशीर्षस्य शुक्लप्रतिपदि प्रभुः । शीतलो माघकृष्णस्य द्वादश्यामभवन्जिनः ॥१७३।। फाल्गुनासितपक्षेऽभूदेकादश्यां जिनोऽपरः । पक्षेत्रैव चतुर्दश्यां वासुपूज्यजिनेश्वरः ॥१७४।। माघशुक्लचतुर्दश्यां विमलो विमलात्मकः । द्वादश्यां ज्येष्ठकृष्णस्य संजातोऽनंतजिज्जिनः॥१७५॥ माघशुक्लत्रयोदश्यां जज्ञे धर्मो जिनाधिपः।ज्येष्ठकृष्णचतुर्दश्यां शांतिनाथश्च शांतिकृत् ।।१७६॥ कुंथुर्वैशाखमासस्य शुक्लायां प्रतिपद्यभूत् । मार्गशीर्षस्य शुक्लायां चतुर्दश्यामरो जिनः ॥१७७।। एकादश्यां तु तस्यैव शुक्लायां मल्लिरीश्वरः । शुक्लायां माश्वयुज्यां च द्वादश्यां मुनिसुव्रतः १७८ जातश्च कृष्णदशम्यामाषाढस्य नमिर्जिनः । नेमिवैशाखशुक्लस्य त्रयोदश्यां जिनेश्वरः ॥१७९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org