________________
हरिवंशपुराण ।
षष्टितमः सर्गः । राजा मेघरथःसिंहरथो धनपतिः परः । नाम्ना वैश्रवणो राजा श्रीधर्माख्यस्ततः पदः॥१५४॥ सिद्धार्यः सुप्रतिष्ठोहमानंदो नंदनो नृपः । पूर्वजन्मनि नामानि जिनानामानुपूर्वतः ॥ १५५ ॥ चक्री पूर्वधरः पूर्वो महामंडलिकाः परे । एकादशांगिनः सांगैः सर्वेऽपि कनकप्रभाः॥१५६ ॥ सिंहविक्रीडितं कृत्वा प्रायोपगमनं गताः । मासक्षपणतः सर्वे यथास्वं स्वर्गलोकगाः॥१५७ ॥ वज्रसेन इति ख्यातस्तथारिंदमसंज्ञकः । स्वयंप्रभाभिधश्चान्यः परो विमलवाहनः ।। १५८ ॥ सूरिः सीमंधराभिख्यो गुमश्च पिहितास्रवः । अरिंदममुनिर्मान्यो वंदनीयो युगंधरः ॥ १५९ ॥ सर्वा सर्वजनानंदोप्युभयानंदनामकः । वज्रदत्तोऽपरो वेद्यो वज्रनाभिरभिष्टुतः ॥ १६० ॥ सर्वगुप्तस्त्रिगुप्तायश्चित्तरक्षाभिधः परः । विमलाचारसंपन्नो मान्यो विमलवाहनः ॥१६१ ॥ गुरुधनरथाभिख्यः संवरः संवरान्वितः । वरधर्मस्त्रिलोकीयः सुनंदो नंदसंज्ञकः ॥ १६२ ॥ व्यतीतशोकनामान्यो दामरः प्रौष्ठिलः परः । जिनानां गुरवोऽमी न क्रमेणातीतजन्मनि ॥१६३।। वृषो धर्मश्च शांतिश्च कुंथुः सर्वार्थसिद्धितः । चत्वारः प्रच्युता ज्ञेया विजयादभिनंदनः ॥१६४॥ चंद्रप्रभसुमत्याख्यौ वैजयंताज्जयंततः । नेम्यरौ नमिमल्लीशादपराजिततश्युतौ ॥ १६५ ।। आरणात्पुष्पदंतेशः शीतलेशोऽच्युताच्च्युतः। पुष्पोत्तरविमानेशः श्रेयोनंतौ च सन्मतिः ॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org