________________
हरिवंशपुराणं ।
७१४
षष्टितमः सर्गः । नमिश्च निवृतो नेमिर्वर्तमानोहमत्र तु । पार्श्वश्चापि महावीरो भवितारौ जिनेश्वरौ ॥ १४१ ।। जंबूपिविदेहेष्टौ भारते पंच ते जिनाः । सप्तैव धातकीखंडे चत्वारः पुष्कराजाः ॥१४२॥ प्राग्भवे पुंडरीकिन्यां वृषभः शांतिरीश्वरः । अजितस्तु सुसीमायां क्षेमपुर्यामरो जिनः ॥ १४३ ॥ रत्नसंचयजः कुंथुः संभवश्वाभिनंदनः । मल्लिश्च वीतशोकायां जंबूद्वीपविदेहजाः ॥ १४४ ।। चंपायामिह कौशांब्यां गजाहनगरेऽपि ते, ऽयोध्यायां भरतक्षेत्रे छत्राकारपुरे ऋमात् ॥ १४५।। मुनिसुव्रतनाथश्च नमिर्ने मिजिनस्तथा । पावाख्यश्च महावीरः पंचामी पूर्वजन्मनि ।। १४६ ॥ पुंडरीकिण्यखंडश्रीः सुसीमाक्षेमपुर्यपि । धातकीखंडपूर्वाधं सक्रम रत्नसंचयं ।। १४७ ॥ मुमत्यादिचतुर्णा च पुरः पूर्वत्र जन्मनि । सुविध्यादिचतुर्णा च पूर्वपुष्करजास्त्वमू ॥ १४८ ॥ तथैव धातकीखंडे पश्चादरावतक्षितौ । अनंतजिदभूत्पूर्वमरिष्टपुरसंभवः ॥ १४९ ॥ पूर्वार्धभारते तस्य विमलस्तु महापुरे । भद्रिलादौ पुरे धर्मस्तत्र नामान्यमूनि तु ॥ १५० ।। वज्रनाभिरभूदायो विमलस्तदनंतरः । विपुलो वाहनांत्योऽन्यो महाबल इतीरितः ॥ १५१ ॥ परोऽतिबल इत्यासीदपराजित इत्यतः । नंदिषेणस्तथा पयो महापद्मः स्मृतः परः ॥१५२ ।। पद्मगुल्मोअपि नलिनगुल्मः पनोत्तरः परः । पयास नः पुनः पयस्तथा दशरथो नृपः ॥ १५३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org