SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ७१३ षष्टितमः सर्गः । अभिरूपतरां कन्यां सोमशर्माग्रजन्मनः । प्रजातां क्षत्रियायां च सोमाख्यां वृतवान् हरिः ।। १२८ ॥ विवाहारंभसमये मुदिताखिलयादवे । जाते जिनपतिः प्राप्तो विहरन् द्वारिकां तदा ॥ १२९ ॥ समागत्योपविष्टं तमद्रौ रैवतिके विभुं । वंदितुं निर्ययौ सर्वे यादवा बहुमंगलाः || १३०॥ दृष्ट्वा गजकुमारस्तमाटोपं द्वारिकोद्भवं । दृष्टा कंचुकिनं जैनं विवेद हितमादितः ।। १३१ ॥ ततो गजकुमारोऽपि प्रयातो वंदितुं जिनं । रथेनादित्यवर्णेन हर्षाद्रोमांच मुद्वहन् ।। १३२ ।। आर्हत्यविभवोपेतं गणैर्द्वादशभिर्वृतं । जिनं नत्वोपविष्टोऽसौ कुमारचक्रपाणिना ।। १३३ ।। जगाद भगवांस्तत्र नृसुरासुरसंसदि । संसारतरणोपायं धर्मं रत्नत्रयोज्वलं ।। १३४ ॥ प्रस्तावे हरिरप्राक्षीज्जिनेंद्रं प्रणिपत्य सः । अत्यंतादरपूर्णेच्छः श्रोत्रिलोकहितेच्छया ॥ अर्हतां चक्रिणामर्धचत्रिणां सीरधारिणां । उत्पत्तिः प्रतिशत्रूणां जिनानां च विशेषतः यथा प्रश्नमितस्तस्मै संभूतिं विष्णवे ततः । त्रिषष्टियुगमुख्यानां प्रोवाच पुरुषेशिनां ॥ आद्यो वृषभनाथोऽभूदजितः संभवः प्रभुः | अभिनंदननाथश्च सुमतिः पद्मसंप्रभः ॥ १३८ ॥ सुपार्श्वनामधेयोऽन्यचंद्रप्रभ इतीश्वरः । सुविधिः शीतलः श्रेयान् वासुपूज्यश्च पूजितः ॥ १३९ ॥ विमलोनंतजिद्धर्मः शांतिः कुंथुररो जिनः । मल्लिः शल्यकुशोद्धारो मुनींद्रो मुनिसुव्रतः ॥ १४० ॥ १३७ ॥ Jain Education International For Private & Personal Use Only ॥ १३५ ॥ १३६ ॥ www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy