________________
हरिवंशपुराणं।
७१२
... षष्टितमः सर्गः । अनास्वाद्य फलान्येषा पद्मा देवी दृढव्रता । प्रत्याख्यायैकपल्यापुरते हैमवतेऽभवत् ॥ ११५ ॥ देवी स्वयंप्रभस्यातो व्यंतरस्य स्वयंप्रभा । स्वयंभूरमणद्वीपे स्वयंप्रभगिरावभूत् ॥ ११६ ॥ ततश्चागत्य भरते जयंतनगरेशिनः । श्रीमत्यां विमलश्रीः सा श्रीधरस्य सुताभवत् ॥ ११७ ।। प्रादायि मेघनादाय सा भद्रिलपुरेशिने । लेभे च तनयं ख्यातं मेघघोषाख्ययाऽवनौ ॥११८ ॥ भर्तरि स्वर्गते सापि पद्मावत्यार्यिकांतिके। आचाम्लवर्धमानाख्यं तपः कृत्वा दिवं ययौ॥११९।। सा सहस्रारकल्पस्य पत्युर्भूत्वाग्रकामिनी । नवपंचकपल्यैस्तु तुल्यं कालमजीगमत् ।। १२०॥ जातास्यत्र ततश्युत्वा त्वमरिष्टपुरोशिनः । श्रीमत्यां स्वर्णनाभस्य सुता पद्मावती श्रुता ॥१२१॥ तपसा नाकमारुह्य देवश्युत्वा तपोबलात् । सेत्स्यति त्वमिति प्रोक्ते श्रुत्वा सा जिनमानमत् १२२ रोहिणी देवकीपूर्वा देव्योन्येऽपि च यादवाः। पृष्ट्वा श्रुत्वा स्वजन्मानि जाता संसारभीरवः ॥१२३।। बुद्धा नत्वा जिनेंद्रं तं सुरासुराश्च यादवाः । यांति स्वस्थानमायांति पूजनार्थ पुनः पुनः॥१२४॥ विजहार पुनर्देशान् जिनो भव्यहिताय सः । सूर्यस्येव हि चर्यासीज्जगत्कार्याय वैभवी ॥१२५।। इतश्च वसुदेवाभं वासुदेवमनाप्रियं । सुतं गजकुमाराख्यं देवकी सुषुवे शुभं ।। १२६ ।।। यौवनं स परिप्राप्तः कन्याजनमनोहरं । ततोऽस्मै वरयांचके चक्री राजकुमारिकाः ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org