________________
हरिवंशपुराणं ।
७११
षष्टितमः सर्गः । निमत्यार्थिकापार्श्वे तपो जिनगुणाविधं । गृहीत्वोपोष्य जातासि महाशुक्रेंद्रवल्लभा ॥ १०२ || एकविंशतिपल्या युयुत्वा चंद्रमतिस्त्रियां । गौरी त्वं वीतशोकायां मेरुचंद्रादभूत्सुता ॥ १०३ ॥ भवैः सिद्धिस्त्रिभिस्ते स्यादित्युक्ते सा नता विभुं । प्रणिपत्य ततः पृष्टः पद्मावत्या भवान् जगौ । १०४ । उज्जयिन्यामिहैवासीद पराजितभूभृतः । तनया विनयश्रीः सा विजयावनितांगजा ॥ १०५ ॥ हस्तिशीर्षपुराधीशं हरिषेणमसौ पतिं । प्राप्ता पतियुता दानं वरदत्ताय संददौ ।। १०६ ।। कालागुरुकधूपेन भर्ना गर्भगृहे मृता । भूत्वा हैमवते भुक्त्वा सुखं पल्यसमस्थितिः ॥ १०७ ॥ जाता चंद्रप्रभादेवी ततचंद्रस्य वल्लभा । पल्योपमाष्टभागायुरतश्रयुत्वा तु भारते ।। १०८ ।। ग्रामेऽभूत्साल्मलीखंडे मगधेषु गृहेशिनोः । दुहिता पद्मदेवीति देविलाजयदेवयोः ।। १०९ ।। आचार्यादूरधर्माख्यादेकदा व्रतमग्रहीत् । यावज्जीवं न भक्ष्यं मे फलमज्ञातमप्यसौ ॥ ११० ॥ प्रचंडशाल्मलीखंडे ग्रामेऽवस्कंदनामतः । अकांडे चंडवाणाख्यो व्याधमुख्योऽहरज्जनं ॥ १११ ॥ दिगेहे गृहीत्वा तां पद्मदेवीं स्वदारतां । निनीषुः शीलवत्यासौ प्रत्याख्यातोऽनया नयात् । ११२ । स राजगृहनाथेन राज्ञा सिंहरथेन तु । हठेन निहतोरण्ये शरण्ये जनता भ्रमत् ॥ ११३ ॥ अत्पीडिता जनास्तत्र दिग्मूढा मूढबुद्धयः । मृगा इव मृता दुःखात्किपाक फलभक्षिणः ॥ ११४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org