________________
हरिवंशपुराणं ।
षष्टितमः सर्गः ।
ततश्वात्रोत्तर श्रेण्यां पुरे गगनवल्लभे । विद्युद्वेगस्य कन्याऽभूद्विद्युन्मत्यां महाद्युतिः ॥ ८९ ॥ विनयश्रीगुणैः ख्याता नित्यालोकपुरेशिनः । महेंद्रविक्रमस्यैषा योषिद्गुणसमन्विता ॥ ९० ॥ चारणश्रमणाम्यां तु धर्मं श्रुत्वा समंदरे । राज्ये नियोज्य निष्क्रांतो नंदनं हरिवाहनं ॥ ९१ ॥ विनयश्रीस्तु कृत्वासौ सर्वभद्रमुपोषितं । पंचपल्य स्थितिर्जाता सौधर्मेंद्रस्य बल्लभा ॥ ९२ ॥ पुर्या त्वं पुष्कलावत्यां गांधारेषु दिवश्रयुता । गांधारींद्रगिरे राज्ञो मेरुमत्यामभूत्सुता ॥ ९३ ॥ तृतीयभवसिद्धिस्त्वमित्युक्ते सानमज्जिनं । गौर्या विज्ञापितो नत्वा तद्भवानाह विश्ववित् ॥९४॥ इभ्यस्येभ्यपुत्राभूद्धनदेवस्य कामिनी । यशस्विनी स्थिता हर्म्ये चारणौ वीक्ष्य सांबरे ।। ९५ ।। सस्मार स्वभवान् सर्वान् धातकीखंडमंडले । पूर्वस्य मंदरस्यासं विदेहेश्वरेश्वहं ।। ९६ ।। आनंदश्रेष्ठिनः पत्नी नंदशोकपुरेऽर्हते । मितसागरना नेत्र दानं दत्वा सभर्तृका ।। ९७ । पंचाश्रर्याण्यहं प्रापं कृतानि त्रिदशैर्मुदा । पीत्वा काशोदकं भर्त्रा सविषं मृतवत्यमा ॥ ९८ ॥ भूत्वा देवकुरुष्वासमैशानेंद्रप्रिया ततः । जातात्राहमिति ज्ञात्वा सा संवेगपरायति ॥ ९९ ॥ नवा सुभद्रनामानं प्रोषधव्रतमग्रहीत् । मृत्वा शक्रस्य देव्यासीत्पंचपल्यसमस्थितिः ॥ १०० ॥ च्युत्वाभूदिह कौशांन्यां सुमित्रायां सुभद्रतः । इभ्याद्धर्ममतिर्नान्ना कन्या धर्ममतिः सदा ॥ १०१ ॥
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org