________________
हरिवंशपुराणं ।
षष्टितमः सर्गः ।
७०८
सा यक्षगृहपूजार्थमन्यदा प्रगतात्र च । धर्मसेन गुरोरं धर्मं शुश्राव गौरवात् ॥ ६४ ॥ आहारदानमस्मै सा पात्रायातिथयेऽन्यदा । दत्त्वा भक्तिमती कन्या पुण्यबंधं बबंध च ॥ ६५ ॥ सखीभिः क्रीडितुं याता कदाचिद्विमलाचलं । तत्र चाकालवर्षेण पीडिता प्राविशद्गुहां ॥ ६६ ॥ तत्र सिंहेन संत्रस्ता ग्रस्ता त्यक्तात्मविग्रहा । बभूव हरिवर्षसौ द्विपल्योपमजीविता ॥ ६७ ॥ ज्योतिर्लोकमतो गत्वा पल्योपमसमस्थितिः । तच्च्युत्वा पुष्कलावत्यां जंबूद्वीपस्य भारते ||६८ || वीतशोकाभिधानायामशोकस्य महीपतेः । श्रीमत्यामभवत्कन्या श्रीकांता नामतः सुता ॥ ६९ ॥ जिनदत्तार्थिकोपांते विनिष्क्रम्य कुमारिका । रत्नावलिं तपः कृत्वा महेंद्राधिपतेः प्रिया ॥ ७०॥ भूत्वैकादशपल्यायुर्भुक्त्वा स्वर्गसुखं च्युता । सुज्येष्ठायां सुराष्ट्रेषु राष्ट्रवर्धन भूभृतः ॥ ७१ ॥ सुसीमास्तनयास्त्वं नगरे गिरिपूर्वके । देवो भूत्वा तपः शक्त्या मोक्ष्यसे नृभवे ततः ॥ ७२ ॥ निशम्यात्मभवानित्थं सुसीमा सौम्यमानसा । प्रकृष्टासन्ननिष्ठेति निष्ठितार्थं ननाम सा । | ॥ ७३ ॥ पृष्टो लक्ष्मणया नत्वा जिनः प्रोवाच तद्भवान् । जिनाः सर्वहिता सर्वे यत्प्रश्नोत्तरवदिन ||७४ || द्वीपेऽस्मिन् कच्छकावत्यां सीताया उत्तरे तटे । राजारिष्टपुरे ह्यासीद्वासवो वासवोपमः ॥ ७५ ॥ सुमित्राख्या प्रियास्यासौ वंदितुं सांगनो ययौ । गुरुं सागरसेनाख्यं सहस्राम्रवनस्थितं ॥ ७६ ॥
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org