________________
हारिवंशपुराणं ।
७०७
.. माहितमः सर्गः। पजमुष्टेः सुभद्रायां सुमतिस्तनयाभवत् । सुंदर्जिकया पार्श्वे कृत्वा रत्नावलीतपः ॥५१॥ सा त्रयोदशपल्यायुर्बळेंद्राग्रांगनाऽभवत् । च्युतातो दक्षिणश्रेण्या विजयाधस्य मारते ॥ ५२ ।। नगरे जांववाभिख्ये जांबवस्य खगेशिनः । जांबवत्यां प्रियायां त्वं जाता जांबवती सुता ॥५३॥ तपस्तपस्विनी कृत्वा भूत्वा कल्पामरोत्तमः। च्युत्वा नृपात्मजो भूत्वा तपसा सिद्धिमेष्यति ॥५४॥ सेत्युक्ते त्यक्तशंसीतिशीलालंकृतिशालिनी । प्रणम्य जिनमासीना मन्वाना भवनिर्गमं ॥ ५५ ॥ जननानि जिनो पृष्टो विनयेन सुसीमया । सभाजनमनोहादजननध्वनिनाब्रवीत् ॥ ५६ ॥ घातकीखंडपूर्वाधरुपूर्वविदेहजे । विजयो मंगलावत्यां नगरे रत्नसंचये ॥ ५७ ॥ भूपतिर्विश्वसेनोभूद्भार्यास्यानुधरीरिता । अमात्यः श्रावकोऽस्यैव विश्रुतः सुमतिश्रुतिः ॥५८॥ पद्मसेनेन निहतोऽयोध्याधिपतिना युधि । विश्वसेनोऽस्य जायायै सोमात्यो धर्ममब्रवीत् ॥५९॥ मोहादप्राप्तसम्यक्त्वा विजयद्वारवासिनः । मृत्वा ज्वलितवेगाभूव्यंतरी विजयस्य सा ॥६॥ दशवर्षसहस्त्राणि भुक्त्वा तत्र सुखं ततः । व्युता चिरं परिभ्रम्य भीमं संसारसागरे ॥६॥ जंबूद्वीपविदेहेंतः सीताया दक्षिणे तटे । रम्ये रम्याभिधे क्षेत्रे शालिग्रामे महाधने ॥६२॥ सुताभूदेवसेनायां यक्षिलस्य गृहेशिनः । यक्षाराधनतो लन्धा यक्षदेवी स्वनामतः ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org