SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ७०६ हरिवंशपुराणं । पष्टितमः सर्गः । अच्युतेंद्रमहादेवी नान्ना गगनवल्लभा । वल्लभाभवदुत्कृष्टा स्त्रीस्थितिस्तत्र देव्यसौ ॥ ३८॥ ततोवतीर्य भीष्मस्य श्रीमत्यांत्वं सुताऽभवः । नगरे कुंडिनाभिख्य रुक्मिणी रुक्मिणः स्वसा॥३९॥ कृत्वा चात्र भवे भव्ये प्रव्रज्या विबुधोत्तमः। व्युत्वा तपश्च कृत्वात्र नैग्रंध्यं मोक्ष्यसे ध्रुवं ॥४०॥ भीष्मजा भीष्मसंसारभीरुराकण्यं सा भवान् । ज्ञात्वासनस्वमोक्षाप्तिः प्रणनाम प्रभुं मुदा ॥४१॥ जांबवत्या जिनः पृष्टस्तस्याः प्राह पुराभवं । संसारभयभीतानां सन्निधौ निखिलागिनां ॥४२॥ सुतासीत्पुष्कलावत्यां जंबूद्वीपस्य देविलात् । नगर्या वीतशोकायां देवमत्यां यशस्विनी ॥४३॥ गृहपत्यात्मजा यासौ गृहपतेः शरीरजा । दत्ता सुमित्रसंज्ञाय मृते तत्र सुदुःखिता ॥४४॥ जैनेन जिनदेवेन जिनधर्मोपदेशिता । शाम्यमाना न सम्यक्त्वं लेभे मोहोदयादसौ ॥४५॥ दानोपवासविधिना लौकिकेन मृता सती । नंदने व्यंतरस्यासीत् सा भार्या मेरुनंदना॥४६॥ त्रिंशद्वर्षसहस्राणि लब्धाशीतियुतानि तत् । भोगं भुक्त्वा चिरं कालं संसारं संससार सा ॥४७॥ द्वीपेत्रैरावतक्षेत्रे पुरे विजयपूर्वके । बंधुषेणस्य भूपस्य बंधुमत्याः सुताऽभवत् ॥ ४८ ॥ नाना बंधुयशाः कन्या श्रीमत्या प्रोषधव्रतं । कन्यया जिनदेवस्य प्रतिपद्य मृतामवत् ॥४९॥ धनदस्य प्रिया पत्नी नामतः सा स्वयंप्रभा । च्युत्वातः पुंडरीकियां जंबूद्वीपे पृथौ पुरि॥५०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy