________________
हरिवंशपुराणं।
७०५
षष्टितमः सर्गः । अत्रैव भरतक्षेत्रे विषये मगधाभिधे । बामणी सोमदेवस्य लक्ष्मीग्रामेग्रजन्मनः ॥२६॥ आसीलक्ष्मीमती नाम्ना लक्ष्मीरिव सुलक्षणा । रूपाभिमानतो मूढा पूज्यान प्रतिमन्यते ॥२७॥ धृतप्रसाधना वक्त्रं कदाचिच्चित्तहारिणी । नेत्रहारिणि चंद्राभे पश्यंती मणिदर्पणे ॥२८॥ समाधिगुप्तनामानं तपसातिकृशीकृतं । साधु भिक्षागतं दृष्टा निनिंद विचिकित्सिता ॥२९॥ मुनेनिंदातिपापेन सप्ताहाभ्यंतरे च सा । क्लिन्नोदुंबरकुष्ठेन प्रविश्याग्निमगान्मृति ॥ ३० ॥ सा ह्यार्तेन खरी भूत्वा मृत्वा लवणभारतः । शूकरी मानदोषेण जाता राजगृहे पुरे ॥ ३१ ॥ वराकी मारिता मृत्वा गोष्ठे जाताथ कुक्कुरी । गोष्ठागतेन सा दग्धा परुषेण दवाग्निना ॥३२।। त्रिपदाख्यस्य मंडूक्यां मंडूक्यामवासिनः । मत्स्यबंधस्य जाता सा दुहिता पूतिगंधिका ॥३३॥ मात्रा त्यक्ता स्वपापेन पितामह्या प्रवर्धिना । निष्कुटे वटवृक्षस्य जालेनाच्छादयन्मुनि ॥३४॥ बोधितावधिनेत्रेण प्रभाते करुणावता । धर्म समाधिगुप्तेन प्रोक्तपूर्वभवाग्रहीत ॥ ३५ ॥ पुरं सोपारकं याता तत्रार्या समुपास्यया । ययौ राजगृहं ताभिः कुर्वाणाचाम्लवर्धनं ।। ३६ ॥ अत्र सिद्धशिला वंद्या वंदित्वा च स्थिता सती। कृत्वा नीलगुहायां सा सती सल्लेखनामृता ॥३७॥
१ गर्दभी । २ ऽजायत इति ख पुस्तके ।
४५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org