________________
हरिवंशपुराणं।
७०४
षष्टितमः सर्गः। गोभूकन्याहिरण्यादिदानानि विषयातुरः । पापबंधीनमित्तानि विप्रः प्रज्ञाप्य सोवनौ ॥ १३ ॥ . मोहयित्वा जडं लोकं राजलोकपुरोगमं । प्रवृत्तः पापवृत्तेषु सप्तमी पृथिवीमितः॥ १४ ॥ उद्वापि परिभ्रम्य तिर्यनारकयोनिषु । काकतालीययोगेन मानुषत्वमुपागतः ॥ १५ ॥ गंधावतीसरित्तीरे गंधमादनपर्वते । व्याधः पर्वतको नाम्ना वल्लरीवल्लभोऽभवत् ॥ १६ ॥ श्रीधरं धर्मसंज्ञं च चारणश्रवणौ गिरौ । दृष्टोपशमकृत्ताभ्यां प्रोषितं धर्मकालभाक् ॥ १७ ॥ ज्योतिर्मालाख्यखेचर्यामलकायां महाबलात् । जातः शतवलिभ्राता स पुत्रो हरिवाहनः ॥१८॥ राजा राज्ये नियोज्यैतौ प्रव्रज्य श्रीधरांतिके । प्रवज्यायाः फलं मुख्यं मोक्षसौख्यमवाप सः ।।१९।। निर्वासितो विरोधस्थो ज्येष्ठेन हरिवाहनः । भगलीदेशशैलेऽस्थादंबुदावर्तनामनि ॥२०॥ श्रीधर्मानतवीर्याख्यौ चारणौ वीक्ष्य तत्र सः । प्रव्रज्याराध्य स प्रापत्कल्पमैशानमेव च ॥२१॥ भुक्त्वा देवसुख देवश्युत्वा संक्लेशभावतः।जाता स्वयंप्रभागर्भे भामा त्वं हि सुकेतुतः ॥२२॥ अत्र जन्मनि कृत्वांते तपो भूत्वामरोत्तमः। च्युत्वा जैनं तपः कृत्वा निर्वाणसुखमाप्स्यति ।।२३।। आकर्ष्यात्मभवानेवं ज्ञात्वात्मासन्ननिवृति । आननाम जिनाधीशं सत्यभामा प्रमोदिनी ॥२४॥ रुक्मिण्यापि ततः पृष्टः पूर्वजन्मानि सर्ववित् । अवोचदिति लोकेशो प्रणिधानपरे स्थिते ॥२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org